पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गोत्रप्रवरनिर्णयः]
४२३
संस्काररत्नमाला
(अत्रिविश्वामित्रकश्यपाः)
 

अथात्रिगोत्रप्रवरकाण्डम् ।

तत्र सूत्रम्--"अथात्रीणां त्र्यार्षेय आत्रेयार्चनानसश्यावाश्वेति श्वावाश्ववदर्चनानसवदत्रिवदित्यथ गविष्ठिराणां त्र्यार्षेय आत्रेयार्चनानसगाविष्ठिरेति गविष्ठिरवदर्चनानसवदत्रिवदित्येष एवाविकृतो वामरथ्यसुमङ्गलबीजवापानाम्" इति ।

 गतार्थम् । अत्रीणां सर्वेषामविवाहः सगोत्रत्वात्सप्रवरत्वाच्च ।

इत्यत्रिगोत्रप्रवरकाण्डम् ।


अथ विश्वामित्रगोत्रप्रवरकाण्डम् ।

तत्र सूत्रम्-- "अथ विश्वामित्राणां देवराताश्चिकितकालबवमनुतन्तुबभ्रुयज्ञवल्कौलोन्त्येर्मरिबृहदग्निसांशित्यवारकितारकितारकायणशालावतास्तेषां त्र्यार्षेयो वैश्वामित्रदैवरातौदलेत्युदलवद्देवरातवद्विश्वामित्रवदित्यथ श्रौमतकामकायनास्तेषां त्र्यार्षेयो वैश्वामित्र[१]माधुच्छन्दसधानंजय्येति धनंजयवन्मधुच्छन्दोवद्विश्वामित्रवदित्यथाष्टका लोहितास्तेषां द्व्यार्षेयो वैश्वामित्राष्टकेत्यष्टकवद्विश्वामित्रवदित्यथ पूरणाः पारिधापयन्त्यस्तेषां द्व्यार्षेयो वैश्वामित्रपौरणेति पूरणवद्विश्वामित्रवदित्यथ कतास्तेषां त्र्यार्षेयो वैश्वामित्रकात्याक्षिलेत्यक्षिलवत्कतवद्विश्वामित्रवदित्यथाघमर्षणाः कुशिकास्तेषां त्र्यार्षेयो वैश्वामित्राघमर्षणकौशिकेति कुशिकवदघमर्षणवद्विश्वा मित्रवदिति" इति ।

 गतार्थम् । विश्वामित्रगणानां परस्परमविवाहः सगोत्रत्वात्सप्रवरत्वाच्च ।

इति विश्वामित्रगोत्रप्रवरकाण्डम् ।


अथ कश्यपगोत्रप्रवरकाण्डम् ।

तत्र सूत्रम्--"अथ कश्यपानां त्र्यार्षेयः काश्यपावत्सारनैध्रुवेति निध्रुववदवत्सारवत्कश्यपवदित्येष एवाविकृतो धौम्याभिषेण्यमाठराणामथ रेभाणां त्र्यार्षेयः काश्यपावत्साररैभ्येति रे[२]भवदवत्सारवत्कश्यपवदित्यथ शण्डिलानां द्व्यार्षेयो दैवलासितेत्यसितवद्देवलवदिति त्र्यार्षेयमु हैके काश्यपदैवलासितेत्यसितवद्देवलवत्कश्यपवदिति द्व्यार्षेयास्त्वेवं न्यायेन" इति ।



  1. ड. त्रदैवश्रवसदैवतरसेति देवतरसवद्देवश्रवोवद्विश्वामित्रवदित्यथाजामा ।
  2. ग. घ. रेभ्यव ।