पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नारायणोपनिषत् प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । तत् सायं प्रातरधीयानो पापोऽपापो भवति। माध्यंदिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात् प्रमुच्यते । सर्ववेदपारायणपुण्यं लभते । नारायणसायुज्यमवाप्नोति, श्रीमन्नारायणसायुज्य- मवाप्नोति, य एवं वेद । [ओम् सह नामवत्विति शान्तिः ॥] इति नारायणोपनिषत् ।। श्रीरस्तु वेदवतुष्टयशिरसां निर्दिष्टानामध्ययनस्य फलं दर्शयति प्रातरिति ! 'तदन्तर्भावात त्वां न पृथगभिधत्ते श्रुतिरपि' इति न्यायेन नारायणाभिधायि पदं सर्वं तद्वक्षःस्थलनित्यवासया श्रिया सहितमेव नारायणमाहेति अष्टाक्षरमन्त्र उकारस्यान्यार्थत्वेऽपि लक्ष्मीरुक्तप्राया; किमुत उकारस्य लक्ष्मीपरत्वे 'उद्धृता विष्णुना लक्ष्मीकारणोच्यते तथे ' ति स्मरणादित्याशयेन श्रीमन्नारायणेत्युक्तम् । इति वात्स्यसचक्रवर्ति वीरराघवाचार्य- कृतिषु उपनिषद्भाष्यपरिकारे नारायणोपनिषत्परिष्कारः। शुभमस्तु