पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २२३ 1 शाखानाडीसहस्राणि भवन्ति, यस्मिन्नयमात्मा स्वपिति शब्दानाञ्च करोति । अथ द्वितीये स कोशे स्वपिति । तदेमञ्च लोकं पश्यति सर्वान् शब्दान् विजानाति स संप्रसाद इत्याचक्षते । दर्शयति यस्मिन्नयमात्मा स्वपितीति । नाडीसमूहाभिप्रायेण यस्मिन्नित्युक्तम् । स्वपितीतिशब्दोऽयं न सुपुप्तिपरः; अपि तु सुषुप्तिस्वप्नसाधारणनिद्रापरः । उपरत- बाह्येन्द्रियव्यापारो यत्र वर्तत इत्यर्थः । स्वप्नसुषुप्तिसाधारणचेष्टामाह शब्दानाञ्च करोतीति । द्वितीयाथै षष्ठी । शब्दान् करोतीति । अबुद्धिपूर्वकमवशप्रलपितं करोतीत्यर्थः । स्वप्ने भयाद्यतिशयात् आक्रोशादिसंभवः । सुषुप्तावपि वातविकारात् अवशप्रलपितसंभवः । एवं स्वप्नसुषुप्त्योः साधारणाकारमुक्त्वा स्वप्नावस्थामाह अथ द्वितीये स कोशे स्वपितीति । अथ जागरानन्तरम् । कोशशब्दः स्थानपरः । प्रथमस्थानं हृदयपुण्डरीकम् । तत्र स्थितस्य जागरः । यदा तदनन्तरं द्वितीयकोशस्थाने (द्वितीये कोशे = स्थाने ?) उक्तानां नाडीसहस्राणां मध्ये कस्मिंश्चिन्नाडीसमूहविशेषे स्वपिति निद्रायते, तदा स प्रस्तुतः संप्रसादो जीवात्मा इमञ्च लोक परञ्च लोकं च() पश्यति । जाग्रदवस्थादृष्टसजातीयञ्च लोकम् ईश्वरसृष्टं पश्यतीत्यर्थः । न तत्र रथा न रथयोगा न पन्थानो भवन्ति। अथ स्थान् रथयोगान् पथः सृजते । स हि कर्ता' इति श्रूयते । पश्यतीति चक्षुर्व्यापार उक्तः । अथ श्रोतव्यापारमाह सर्वान् शब्दान् विजानातीति । इदमीश्वरसृष्टशरीरस्थेन्द्रियान्तरव्यापाराणामपि प्रदर्शनार्थमुक्तम् । इत्याचक्षत इति । स्वप्नावस्थां स्वप्नविदो वदन्तीत्यर्थः । समूहेति । यच्छदार्थभूताषु नाडीषु एकत्वस्य एकवचनोक्तस्य समुदायद्वारा अन्वय इति भावः । शब्दानामिति षष्टी शब्दमध्ये कमपि शब्दनित्यर्थज्ञापनार्थः ; 'एतेषां मे देहि' (छ।.१.१.) इतिवत् । संप्रसाद इति । जागरावस्थागतकालुष्यराहित्यपरः संप्रसादशब्दः । एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परे ज्योतिरुपसंपद्य' इति चरमशरीरवियोगसंनिकृष्टो जीवो निर्दिष्टः । 'भूमा संप्रसादात् इति सूत्रे, "शुद्धस्वरूपाभिप्रायेण सूत्रे संप्रसादनिर्देशः कृतः इति एतद्भाष्यकृद्भिः प्राकाशि। अतः स्वप्नावस्थजीवमात्रे संप्रसादशब्दनियमाभावात् स संप्रसाद इत्यादेः, 'सः स्वप्नावस्थो जीवः संप्रसादशब्दवाच्य इति आचक्षते ' इत्यर्थायोगात् , "