पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

, - श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्युक्ता सुबालोप. ३. अजातमभूतमप्रतिष्ठितमशब्दमस्पर्शमरूपमरसमगन्धमव्ययं महान्तं बृहन्तमजमात्मानं मत्वा धीरो न शोचति । श्रवणात् । कार्यं तु विभक्तनामरूपम् । तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत' इति श्रवणात् । सद्विलक्षणत्वञ्चासत्त्वम् । अतो नामरूपशन्यमासोदित्यर्थः । तस्य समस्तवैलक्षण्यमाह अजातमित्यादिना । कार्यकारणरूपाचिद्गतदोषाभावेन तद्व्यावृत्तिमाह अजातमित्यादिना । —जायते अस्ति विपरिणमते वर्द्धते अपक्षीयते विनश्यती' त्यचेतनस्य भावविकाराः षडुच्यन्ते । तत्र उत्पद्यमानावस्था जन्म । उत्पन्नावस्था चास्तित्वम् । तदुभयाभावमाह अजातमभूतमिति । जन्म च, तदवच्छिन्नमस्तित्वञ्च नास्तीत्यर्थः । अव्ययमिति विनाशराहित्यं वक्ष्यते । उत्पत्तिविनाशमध्यकालभाविनः पृथिव्यादीनां ये विकाराः तद्राहित्येन तव्द्यावृत्तिमाह अप्रतिष्ठितमित्यादिना । प्रतिष्ठा = आधारः । पृथिव्यादीनि आधारसापेक्षाणि । ब्रह्म तु तदनपेक्षम् । अशब्दमित्यादिना कालपरिच्छेदाविनाभूतधर्मव्यावृत्तिरुक्ता । एवमजातमित्यादिना अव्ययमित्यन्तेन कालतः परिच्छेदाभाव उक्तः । महान्तं बृहन्तमिति स्वरूपतो धर्मतश्च विपुलत्वमुक्तम् । तेन देशापरिच्छेद उक्तः । आत्मानमिति वस्त्वपरिच्छेद उक्तः । न हि वस्तुतः परिच्छिन्नो घटः अन्यस्यात्मा भवति । अयं तु सर्वस्यात्मा सर्वशरीरकत्वात् सर्वबुद्धीनां पर्यवसानभूमिः । वस्तुतः परिच्छिन्नो हि घटः पटादिबुद्धेर्न पर्यवसानभूमिरिति तद्व्यावृत्तिः । कर्माधीनदेहसंबन्धलक्षणोत्पत्तिमतां जीवानामप्यात्मशब्दवाच्यत्वात् तद्व्यावृत्त्यर्थमजमात्मान- मित्युक्तम् । एवं त्रिविधपरिच्छेदरहितं समस्तचिदचिद्वस्तुविलक्षणं कारणत्वशङ्किततद्गतदोषास्पृष्टं परमात्मानं मत्वा उपास्य धीरो न शोचतीति । सांसारिकदुःखं नानुभवति । मुक्तो भवतीत्यर्थः । अजातमित्यादिना अचेतनवलक्षण्यस्य प्रपञ्चनम् ; उपरि अप्राणमित्यादिना च चिद्वैलक्षण्यस्य । अप्राणमित्यादिकं, न तदश्नाति किञ्चनेत्यत्र तच्छब्दविशेषणम् ; न तु पूर्वविशेषणम् पूर्ववाक्यस्य समाप्तत्वात् ; अत्रागिति नपुंसकप्रयोगाच्च । अत्र अशब्दमित्यादिपदेषु क्वचिद् बहुव्रीहिः, क्वचित् तत्पुरुष इति यथायथं ग्राह्यम् , यथा गार्गीब्राह्मणे अक्षरविद्यायां बृहदारण्यके ! वस्तुतः वस्तुना ।