पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1 - कौषीनक्युपनिषत्प्रकाशिका स होवाच बालाकिः, ‘य एवैष शारीरः पुरुषः, तमेवाहमुपासे' इति । तं होवाचाजातशत्रुः, 'मा मैतस्मिन् संवादयिष्ठाः। प्रजापतिरिति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, प्रजायते प्रजया पशुभिः ॥ १९ ॥ स होवाच बालाकिः, ‘य एवैष प्राज्ञ आत्मा येनैतत्सुप्तः 'स्वप्नायाचरति, तमेवाहमुपासे ' इति । तं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । यमो राजेति वा अहमेतमुपासे इति । म यो हैतमेवमुपास्ते, J. स्वप्नया-पा. शारीरः । शरीरे अहमित्यभिमन्यमानः पुरुषः शारीरः । तस्य पुत्रपौत्रादिलक्षणप्रजोत्पादकत्वरक्षकत्वादिना प्रजापतित्वम् । प्रजया पशुभिः प्रजायते । प्रजया पशुभिश्च प्रकृष्टो जायत इत्यर्थः । शिष्टं स्पष्टम् ॥ १९ ॥ स होवाच- प्राज्ञः जाग्रदृशायां प्रज्ञाशाली अयमात्मा एतत्सुप्तः एतत सुप्तं यस्य एतादृशसुप्तिविशिष्टस्सन् ---- उपरतबाह्येन्द्रिय इति यावत् - येन स्वप्नायाचरति येन मनसा विशिष्टस्सन् स्वप्नाय प्रवर्तते स्वप्नात् (स्वाप्नान्!) पदार्थान् पश्यति, तत् मनी ब्रह्मोपास इत्यर्थः । यमः- । सन्द्रिययमयितृत्वात् स्वप्रायेत्यत्र स्वप्नयेति पाठान्तरम् । 'आढयाजयारामुपसंख्यानम् ' इति (७-५.३५.) पाणिनीयवार्तिकात्, स्वप्नेनेत्यत्र स्वप्नयेति अयाच् । तन्मनो ब्रह्मोपास इति । ननु तमेवाहमुपासे इति पुटिङ्गतच्छन्दश्रवणात् प्राज्ञस्यात्मनो ग्रहणं युक्तम् । पूर्वोत्तरवाक्येषु च य एवैषदति यच्छब्दगृहीतस्यैव तमेवाहमुपास इति उपास्यत्वेन ग्रहणात् इहापि तादृशस्य प्राज्ञात्मन एकोपासिकर्मत्वे वर्णनीये मनस उपासन- वर्णनं कमिति चेत् - उच्यते । अस्ति विशेषः । तथाहि - सर्वेष्वपि पर्यायेषु पुरुषविशेषाणामुपास्यत्वमुक्तम् । तद्वदिह, 'यः पुरुषस्तमेवाहमुपासे' इति न श्रूयते । प्राज्ञस्यात्मन उपासनान्षयस्तु स्यात् , यदि अनुपपत्तिर्न स्यात् । यद्ययं प्राज्ञ आत्मा परमात्मा, तर्हि तस्य ब्रह्मत्वं प्रामाणिकमिति तस्याब्रह्मत्वमजातशत्रु विवक्षितमयुक्तं स्यात् । अथ जीवात्मा, तर्हि, य एवैष शारीरः पुरुष इति पूर्वपर्यायान्नातिरिच्यते। किञ्च य एवैष इति यच्छब्दप्रतिसंबन्धी चेत् तमिति तच्छन्दः,तर्हि येनेत्यस्य कः प्रतिसंबन्धी । अतः य एवैष प्राज्ञ आत्मा, स एतत्सुप्तस्सन् येन मनसा चरति, तदुपासनमहं करोमीत्युच्यते । तमिति पुल्लिङ्गनिर्वाहः कथमिति चेन्न - मनसो मनःपदेनैव ग्रहणनियमाभावात् , येन करणविशेषेणेत्यर्थवर्णनसंभवादनुपपत्य- 21

,