पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अ.१.] श्वेताश्वतरोपनिषत् तमेकनेमिं त्रिवृतं षोडशान्तं शतार्धार विंशतिप्रत्यराभिः । अष्टकैः षड्भिः विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम्॥ ४ ॥ चित्तावतारसौकर्याय तं चक्रत्वेन रूपयति तमेकनेमिमिति । परमात्मानं प्रकृत्याख्यैकनेमियुक्तं सत्त्वरजस्तमोगुणैः त्रिप्रकारतया त्रिवृतं षोडशसंख्यायुक्तान्तशब्दितविकारोपेतं वाचकभूताकाराादेपञ्चाशद्वर्णलक्षणारोपेतं द्वादशमासपञ्चर्त्वयनद्वयसंवत्सरात्मकविंशतिप्रत्यरयुक्तमित्यर्थः । प्रत्यराभिरिति लिङ्गव्यत्ययश्छान्दसः । अरा हि नाभिनेमिमध्यवर्तिकाष्ठविशेषाः । प्रत्यराश्च तद्दाढ्यार्थनिहिताः तन्मध्यवर्तिकाष्ठविशेषाः । अष्टकैरिति । अणिमाद्यैश्वर्याष्टकमेकम् ; प्राच्यादिदिगष्टकमपरम् ; दिक्पालाष्ट- कमेकम् ; भूमिरापो ऽनलो वायुः ख मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा' इति गीतोक्तं प्रकृत्यष्टकम् , 'अष्टौ प्रकृतय' इत्युक्तप्रकृत्यष्टकात्मकमन्यत् ; 'ब्रह्म प्रजापतिर्देवा गन्धर्वा यक्षराक्षसाः । पितरश्च पिशाचाश्च ' इति देवाष्टकमेकम् ; 'अष्टौ वसव ' इत्युक्तवस्वष्टकम् , अपहतपाप्मत्वादिब्राह्यगुणाष्टकम् ', (दया सर्वभूतेषु इत्यायुक्त दयाद्यष्टकं) — दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गळमकार्पण्यमस्पृहे ' ति आत्मगुणाष्टकं वा एकञ्च । एवमेभिः षड्भिरष्टकैरुपेतम् । विश्वरूपो विराट् पुरुषः । स एव ( एको) मुख्यः पाशः । स्वाश्रितजगन्नैश्चल्यहेतुतया बन्धकपाशवत् विराट् पुरुषः ब्रह्मचक्रस्य पाशरूप इत्यर्थः । त्रिमार्गभेदं द्विनिमित्तैकमोहं देवयानपितृयाणक्षुद्रजन्तुभवनलक्षणमार्गत्रययुक्तम् , तत्र च पितृयाणक्षुद्रजन्तुभवनलक्षणम्पर्गद्वयहेतुभूतदेहात्मैक्यमोहमित्यर्थः । अपश्यन्निति पूर्वेण संबन्धः । (४) पयायष्टकं या 1. पा. दया इत्यादिदयाष्टकं, इति ; दया सर्वभूतेषु इत्याद्युक्तंदयाष्टकं वा इति च.