पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५
ब्रह्मानुचिंतनम् ।
॥ ब्रह्मानुचिंतनम् ॥

अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् ।
इति स्यानिश्चितो मुक्तो बद्ध एवान्यथा भवेत् ॥१॥
अहमेव पर ब्रह्म निश्चित चित्त चिंत्यताम् ।
चिद्रूपत्वादसगत्वादबाध्यत्वात्प्रयत्नतः ॥१॥
अहमेव पर ब्रह्म न चाहं ब्रहाण' पृथक् ।
इत्येव समुपासीत ब्राह्मणो ब्रह्मणि स्थितः ॥३॥
सर्वोपाधिविनिर्मुक्त चैतन्य च निरंतरम् ।
तदब्रह्माहमिति ज्ञात्वा कथं वर्णाश्रमी भवेत् ।। ४ ॥
अह ब्रह्मास्मि यो वेद स सर्वं भवति त्विदम् ।
नाभूत्या ईशते देवास्तेपामात्मा भवेद्धि सः ॥५॥
अन्योऽसावहमन्योऽस्मीत्युपास्ते योऽन्यदेवताम् ।
न स वेद नरो ब्रह्म स देवाना यथा पशुः ॥६॥
अहमात्मा न चान्योऽस्मि ब्रह्मैवाह न शोकभाक् ।
सच्चिदानदरूपोऽह नित्यमुक्त्तरवभाववान् ।१७।।
आत्मान सतत ब्रह्म सभाव्य विहरन्ति ये।
न तेषां दुष्कृत किंचिदुष्कृतोन्था न चापदः १८}
आत्मान सतत ब्रह्म संभाव्य विहरेत्सुखम् ।
क्षण ब्रह्माहमस्मीति यः कुर्यादात्मचितनम् ॥९॥
तन्महापातक हन्ति तमः सूर्योदयो यथा ।
अज्ञानादब्रह्मणो जातमाकाशं बद्धदोपमम् ॥१०॥
आकाशाद्वायुरुत्पन्नो वायोरतेजस्ततः पयः ।
अद्भयश्च पृथिवी जाता ततो व्रीहियवादिकम् ॥११॥
पृथिव्यप्सु पयो वह्नौ वह्निर्वायो नभत्यसौ।