पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९
अद्वतानुभूतिः।


वह्निं विना कथं तेषामुष्णता स्याद्यथा क्वचित् ॥ २५ ॥
भूतभौतिकदेहानां स्फूर्तिता स्वात्मयोगतः ।।
विनात्मान कथ तेषा स्फूर्तिता स्यात्तथा क्वचित् ।। २६ ॥
नानाविधेषु कुभेषु वसत्येक नभो यथा ॥
नानाविधेषु देहेषु तद्वदेको वसाम्यहम् ।।२७ ।।
नानाविधत्व कुंभानां न यात्येव यथा नमः ॥
नानाविधत्व देहाना तद्वदेव न याग्यहम् ॥ २८ ॥
यथा घटेपु नष्टेषु घटाकाशो न नश्यति ।।
तथा देहेषु नष्टेषु नैव नश्यामि सर्वगः ॥ २९ ।।
उत्तमादीनि पुष्पाणि वर्तन्ते सूत्रके यथा ।
उत्तमाद्यास्तथा देहा वर्तन्ते मयि सर्वदा ॥ ३० ॥
यथा न सस्पृशेत्सूत्र पुष्पाणामुत्तमादिता ।
तथा नैक सर्वग मां देहानामुत्तमादिता ॥ ३१ ।
पुष्पेषु तेषु नष्टेषु यद्वत्सूत्र न नश्यति ।
तथा देहेषु नष्टेषु नैव नश्याम्यह सदा ॥ ३२ ॥
पर्यंकरज्जुरध्रेषु नानेवैकापि सूर्यभा ।
एकोऽत्यनेकवद्भाति तथा क्षेत्रेषु सर्वगः ॥ ३३ ॥
रज्जुरध्रस्थदोषादि सूर्यभां न स्पृशेद्यथा ।
तथा क्षेत्रस्थदोषादि सर्वग मा न सस्पृशेत् ॥ ३४ ॥
तद्रज्जुरध्रनाशेषु नैव नश्यति सूर्यभा ।
तथा क्षेत्रविनाशेषु नैव नश्यामि सर्वगः ॥ ३५ ॥
देहो नाह प्रदृश्यत्वाद्भौतिकत्वान्न चेंद्रियम् ।
प्राणो नाहमनेकत्वान्मनो नाह चलत्वतः ॥ ३६ ।।
बुद्धिर्नाहं विकारित्वात्तमो नाह जडत्वतः ।
देहेंद्रियादिक नाह विनाशिवाद्घटादिवत् ॥ ३७॥