पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१
ब्रह्मज्ञानावलीमाला।


अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः ॥ १२ ॥
द्वंद्वादिसाक्षिरूपोऽहमचलोऽह सनातनः ।
सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः ।। १३ ।।
प्रज्ञानधन एवाहं विज्ञानधन एव च।
अकर्ताहमभोक्ताहमहमेवाहमव्ययः ।। १४ ॥
निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च ।
आप्तकामस्वरूपोऽहमहमेवाहमव्ययः ॥ १५ ।।
तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः ।
अवस्थात्रयसाक्ष्यस्मि चाहमेवाहमव्ययः ॥ १६ ॥
दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणौ ।
दृग्ब्रह्म दृश्य मायेति सर्ववेदातडिंडिमः ॥ १७ ॥
अह साक्षीति यो विद्याद्विविच्यैव पुनः पुनः ॥
स एव मुक्तः स विद्वानिति वेदातडिंडिमः ॥ १८ ॥
घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।
तद्वद्ब्रह्म जगत्सर्वमिति वेदान्तडिंडिमः ॥ १९ ॥
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः।
अनेन वेद्य सच्छास्त्रमिति वेदान्तडिंडिमः ॥ २० ॥

॥ इति ब्रह्मज्ञानावलीमाला समासा ॥