पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३४
विवेकचूडामणिः ।


  स्व वान्य वा किंचन नित्य परतत्रः ।। १६८ ॥
 ज्ञानेंद्रियाणि च मनश्च मनोमयः स्या-
  कोशो ममाहमिति वस्तुविकल्पहेतुः ।
 सज्ञादिभेदकलनाकलितो बलीयां-
  स्तत्पूर्वकोशमभिपूर्य विजभते यः ॥ १६९ ॥
पंचेद्रियैः पंचभिरेव होतृभिः प्रचीयमानो विपयाज्यवारया ।
जाज्वल्यमानो बहुवासनेधनैर्मनोमयाग्निर्वहति प्रपंचम् ॥ १७० ॥
न ह्यस्त्यविद्या मनसोऽतिरिक्ता मनो ह्यविद्या भवबंधहेतुः ।
तस्मिन्विनष्टे सकल विनष्ट विजुभितेऽस्मिन्सकलं विज़ुभते ॥ १७१ ॥
स्वप्नेऽथ शून्ये सृजति स्वशक्त्या भोक्त्रादि विश्वं मन एव सर्वम् ।
तथैव जाग्रत्यपि नो विशेषस्तत्समेतन्मनसो विजभणम् ॥ १७२ ॥
सुषुप्तिकाले मनास प्रलीने नैवास्ति किंचित्सकलप्रसिद्धः ।
अतो मनःकल्पित एव पुसः ससार एतस्य न वस्तुनोऽस्ति ॥ १७३ ॥
 वायुना नीयते मेघः पुनस्तेनैव नीयते ।
  मनसा कल्प्यते बंधो मोक्षस्तेनैव कल्प्यते ॥ १७४ ॥
 देहादिसर्वविषये परिकल्प्य राग
  बध्नाति तेन पुरुप पशुवद्गुणेन ।
 वैरस्यमत्र विषवत्सु विधाय पश्चा-
  देनं विमोचयति तन्मन एव बंधात् ॥ १७४ ॥
 तस्मान्मनः कारणमस्य जतो-
  बंधस्य मोक्षस्य च वा विधाने ।
 बधस्य हेतुर्मलिन रजोगुणै-
  मोक्षस्य शुद्ध विरजस्तमस्कम् ॥ १७६ ॥
विवेकवैराग्यगुणातिरेकान्छुद्धत्वमासाद्य मनो विमुक्त्यै ।
भवत्यतो बुद्धिमतो मुमुक्षोरताभ्यां दृढाभ्यां भवितव्यमने ॥ १७७ ॥