पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०९
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


निर्विकारं निराकारं निरञ्जनमनामयम् ।
आद्यन्तरहितं पुर्णं ब्रह्मैवाहं न संशयः ॥ ८९३ ॥
निष्कलङ्कं निरातङ्कं त्रिविधच्छेदवर्जितम् ।
आनन्दमक्षरं मुक्तं ब्रह्मैवास्मीति भावयेत् ॥ ८९४ ॥
निर्विशेषं निराभासं नित्यमुक्तमविक्रियम् ।
प्रज्ञानैकरसं नित्यं ब्रह्मैवास्मीति भावयेत् ।। ८९५ ॥
शुद्धं बुद्धं तत्वसिद्धं परं प्रत्यगखण्डितम् ।
स्वप्रकाशं पराकाशं ब्रह्मैवास्मीति भावयेत् ॥ ८९६ ॥
सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् ।
केवलं परमाद्वैतं ब्रह्मैवास्मीति भावयेत् ।। ८९७ ॥
इत्येवं निर्विकारादिशब्दमात्रसमर्पितम् ।
ध्यायतः केवलं वस्तु लक्ष्ये चित्तं प्रतिष्ठति ।। ८९८॥
ब्रह्मानन्दरसावेशादेकीभूय तदात्मना ।
बुद्धेर्वा निश्चलावस्था स समाधिरकल्पकः ॥ ८९९ ।।
उत्त्थाने वाप्यनुत्त्थानेऽप्यप्रमत्तो जितेन्द्रियः ।
समाधिषट्कं कुर्वीत सर्वदा प्रयतो यतिः ॥ ९०० ॥
विपरीतार्थधीर्यावान्न निःशेषं निवर्तते ।
स्वरूपस्फुरणं यावन्न प्रसिद्ध्यत्यनर्गलम् ।
तावत्समाधिषट्केन नयेत कालं निरन्तरम् ॥ ९०१ ॥
न प्रमादोऽत्र कर्तव्यो विदुषा मोक्षमिच्छता ।
प्रमादे जृम्भते माया सूर्यापाये तमो यथा ।। ९०२ ।।
स्वानुभूतिं परित्यज्य न तिष्ठन्ति क्षणं बुधाः ।
स्वानुभूतौ प्रमादो यः स मृत्युर्न यमः सताम् ।। ९०३ ॥
अस्मिन्समाधौ कुरुते प्रयासं
 यस्तस्य नैवास्ति पुनर्विकल्पः ।