पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्तसारसंग्रहः । १७१ + . एतत्सर्वं दयादृष्ट्या करामलकवत्स्फुटम् । प्रतिपादय सर्वज्ञ श्रीगुरो करुणानिधे ।। ४७२ ॥ श्रीगुरु:- न सावयव एकस्य नात्मा विषय इष्यते । अस्यास्मत्प्रत्ययार्थत्वादपरोक्षाच सर्वशः ॥ ४७३ ॥ प्रसिद्धिरात्मनोऽस्त्येव न कस्यापि च दृश्यते । प्रत्ययो नाहमस्मीति न ह्यास्त प्रत्यगात्मनि ।। ४७४ ॥ न कस्यापि स्वसद्भावे प्रमाणमभिकांक्ष्यते । प्रमाणाना च प्रामाण्य यन्मूलं किं तु बोधयेत् ॥ ४७५ ॥ मायाकार्यैस्तिरोभूतो नैप आत्मानुभूयते । मेघवृदैर्यथा भानुस्तथायमहमादिभिः ।। ४७६ ॥ पुरस्थ एव विषये वस्तुन्यध्यस्यतामिति । नियमो न कृतः सद्भिर्धान्तिरेवात्र कारणम् ॥ ४७७ ॥ दृगाद्यविषये व्योम्नि नीलतादि यथाऽबुधाः । अध्यस्यन्ति तथैवारिमन्नात्मन्यपि मतिभ्रमात् ।। ४७८ ।। अनामन्यात्मताध्यासे न सादृश्यमपेक्षते । पीतोऽय शख इत्यादौ सादृश्य किमपेक्षितम् ।। ४७९ ।। निरुपाधिभ्रमेष्वस्मिन्नेवापेक्षा प्रदृश्यते । सोपाधिष्वेव तदृष्ट रज्जुसर्पभ्रमादिषु ॥ ४८० ।। तथापि किंचिद्वक्ष्यामि सादृश्य शृणु तत्परः। अत्यतनिर्मलः सूक्ष्म आत्मायमतिभास्वरः ॥ ४८१ ॥ बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वराऽमला । सांनिध्यादात्मवद्भाति सूर्यवत्स्फाटिको यथा ।। ४८२ ॥ आत्माभास ततो बुद्धिर्बुद्ध्याभास ततो मनः । अक्षाणि मनआभासान्यक्षाभासमिद वपुः ॥४८३।।