पृष्ठम्:श्रीललितासहस्रनाम.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XI

कृत्तज्ञताविष्करणम्

<poem> एतत्पुस्तकसम्पादने कावेंटिनगरसंस्थानस्य, निर्णयसागरमुद्रणाल यस्य अडयारस्थदिव्यज्ञानसमित्याश्च संस्करणानि पाठसंवादार्थ यथा वसरं मया समुपयुक्तानि। तदर्थ तत्तदधिकारिभ्यः नितरामहं कृतज्ञः। अस्मिन् व्यतिकरे ललितानामसहस्रभाष्यस्य निर्णसागरसं स्करणप्रदानेन, कावेंटिनरगसंस्थानसंस्करणप्रदानेन च सदयं मामनु गृहीतवन्तः क्रमेण प्रियसुहृमणयः प्रो० एम्० डिः बालसुब्रह्मण्य महोदयाः (प्राचार्याः केन्द्रीयसंस्कृतविद्यापीठम्, तिरुपति) प्रो०पि० श्रीरामचन्द्रुडु महाभागः (आचार्याः संस्कृतविभागः, उस्मानिया विश्व विद्यालय, हैदराबाद्)। तदर्थं सनमोवाकं कार्तश्यमाविष्करोमि। सौभाग्यभास्करवैशिष्टयमधिकृत्य स्वप्रकटितं पत्रं प्रेषितवतां प्रियसुहू नमणीनां प्रो० पि० जि० लालेमहोदयानां (आचार्याः, संस्कृतविभागः, उस्मानिया विश्वविद्यालयः, हैदराबाद् भृशं कृतज्ञोऽसौ जनः ।

महता परिश्रमेण सम्पादितमिमं ग्रन्थं प्रकटनाय स्वीकृतवतां तदानीन्तनकार्यनिर्वहणाधिकारिणां श्रीमतां पि० वि० आर्० के प्रसादमहो दयानां, तथा अद्यतनकार्यनिर्वहणाधिकारिणां श्रीमतां एस्० लक्ष्मी नारायणमहोदयानां च हार्द कार्तज्ञयमाविष्करोमि ।

मुद्रणकार्य सप्रेम निवर्तितवते प्रियमित्राय श्री एम्. वजयकुमारराडुमहदयाय तथा उपकृतवत श्रा एम्० गोपालरेडुि नान्ने तत्सहकरिबृन्दाय च कृतज्ञोऽयं जनः । सावधानं शोधने कृतेऽपि तत्र तत्र स्खलित्यानि अवस्थितान्येव । अतः पाठका याच्यन्ते मर्षणाय ।

ललिता परमेश्वरी कृपा

कलिता रक्षतु भक्तमण्डलीम्।

क्रोधनवत्सरादिः

२२. ३. १९८५

ए० बि० रघुनाथाचार्यः