पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२ सर्गः]
429
उपादिशत् स गाथे द्वे दिव्ये प्राणप्रदे मुदा

 कथमात्मसुतान्[१]हित्वा त्रायसेऽन्यसुतं विभो !
 अकार्यमिव पश्यामः[२]श्वमांसमिव भोजने ॥ १४ ॥

 लोकतश्शास्त्रतश्चानुचितानुष्ठानत्वे दृष्टान्तः-श्वमांसमिवेत्यादि ।

 तेषां तद्वचनं श्रुत्वा त्राणां मुनिपुङ्गवः ।
 क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥ १५ ॥
 निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् ।
 अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ॥ १६ ॥
 श्रमांसभोजिनः सर्वे वासिष्ठा इव जातिषु ।
 पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ॥ १७ ॥

 साध्वसं-भयं, पितृत्वप्रयुक्तप्रतिवचनमीतिरहितं यथा तथा, जीवतोर्वाक्यकरणादिधर्मादपि विगर्हितं-भ्रष्टं यथा तथा, एवं मद्वाक्यमध्यतिक्रम्य यतो दारुणं-निर्मुक्तपितृस्नेहतया परुषं, अत एव कोपावहत्वतो रोमहर्षणं-रोमाञ्चविकारकं वच उक्तम् तस्मात्-श्वमांसेत्यादि । जातिषु-पापजातिविशेषोत्पत्तिविषयेषु ॥ १७ ॥

 कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तथा ।
 शुनश्शेफमुवाचार्तं कृत्वा रक्षां[३]निरामयम् ॥ १८ ॥
 [इदमाह मुनिश्रेष्ठो विश्वामित्रो महातपाः]

 निरामयं । अनपायो यथा भवति तथा रक्षां-प्रसिद्धां भस्मसाधनां शुनश्शेफस्य कृत्वा तं शुनश्शेफमुवाच ॥ १८ ॥

 पवित्रपाशै[४]रासक्तो रक्तमाल्यानुलेपनः ।
 वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर ॥ १९ ॥


  1. हत्वा-ङ.
  2. भोजने भोज्ये प्राप्ते तत्परित्यागेन श्वमांसभक्षणमिवाकार्यमित्यर्थः-गो.
  3. निरामयाम्-ङ.
  4. राबद्बो-ङ.