पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
420
[बालकाण्डः
त्रिशङ्को: स्वर्गारोहणम्

 स्वर्गोऽस्त्विति । एवंमदृश्यान्यथनावाक्शिरोऽवस्थानस्यैवात्रैव दक्षिणस्यां दिशि स्वर्गोऽस्तु-सुखानुभवोऽस्तु । ‘यन्न दुःखेन सम्भिन्नम्' इत्यादिना सुखविशेष एव स्वर्गशब्दार्थ:; उपचारात्त- त्साधनलोकादिश्च ॥ २८ ॥

 यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः ॥ २९ ॥
 मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ।

 यावल्लोका धरिष्यन्तीति । भूरादिलोका यथास्थानं सनातन- ध्रुवादिज्योतिश्चक्रं यावद्धारयन्ति तावदेतान्यपि नक्षत्राणि भगवद्विग्रहे घृतानि सन्ति मत्कृतानि तिष्ठन्त्विति तदेतन्मे प्रार्थनं अनुज्ञातुमर्हथ ॥

 एवमुक्ताः सुरास्सर्वे प्रत्यूचुर्मुनिपुङ्गवम् ॥ ३० ॥

 अथ तत्प्रार्थनानुमतिः-एवमुक्ता इत्यादि ॥ ३० ॥

 एवं भवतु, भद्रं ते, तिष्ठन्त्वेतानि सर्वशः ।
 गगने[१]तान्यनेकानि वैश्वानरपथाद्वहिः ॥ ३१ ॥
 नक्षत्राणि, मुनिश्रेष्ठ ! तेषु ज्योतिष्षु जाज्वलन् ।
 अवाक्छिरास्त्रिशङ्कुश्च तिष्ठत्वमरसन्निभः ॥ ३२ ॥

 सर्वशः-सर्वाणि अनेकानि तानि नक्षत्राणि वैश्वानरपथात्वैश्वानरज्योतिःप्रसिद्धाऽनादिज्योतिश्चक्रमार्गात् बहिः तदुचितप्रदेशे तिष्ठन्तु । तेषु त्वदीयेषु ज्योतिष्षु जाज्वलन्-भृशं ज्वलन अवाक्छिरा एव अमरसन्निभः-[२]अमरतुल्यः तिष्ठतु ॥ ३२॥


  1. तानि सर्वाणि-ङ.
  2. अमरकृत्यः -क.