पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७ सर्गः]
403
सशरीरो दिवं गन्तुं स इयेष नराधिपः

 वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे ।
 त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम् ॥ १४ ॥
 वासिष्ठान् संददर्शाथ तप्यमानान्[१]यशस्विनः ।

 यत्र तेपिर इति । गत्वेति शेषः । शतं वासिष्ठानिति । बह्वर्थे शतमित्येकत्वनिपातात् सामानाधिकरण्यम् ॥ १४ ॥

 सोऽभिगम्य[२]महात्मानः सर्वानेव गुरोः सुतान् ॥ १५ ॥
 अभिवाद्यानुपूर्व्येण हिया किञ्चिदवाङ्मुखः ।
 अब्रवीत्[३]सुमहात्मानः सर्वानेव कृताञ्जलिः ॥ १६ ॥

 ह्रियेति । वसिष्ठप्रत्याख्यानजयेति शेषः । सुमहात्मानस्सर्वानिति । छान्दसो जस् ॥ १६ ॥

 शरणं वः प्रपद्येऽहं शरण्यान्[४]शरणागतः ।
 प्रत्याख्यातोऽस्मि, भद्रं वः, वसिष्ठेन महात्मना ॥ १७ ॥

 शरणागतः-शरणं रक्षितारं रक्षित्रपेक्षया आगतः अहं शरण्यान्-रक्षणसमर्थान् वः-युष्मानेव शरणं प्रपद्ये ॥ १७ ॥

 यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ ।
 गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये ॥ १८ ॥
 शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् ।
 ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः ॥ १९ ॥
 सशरीरो यथाऽहं हि देवलोकमवाप्नुयाम् ।

 ब्राह्मणान्-अन्वर्थब्राह्मणान् । अत एव-तपसि स्थितान् ॥


  1. मनस्विनः-ङ.
  2. महातेजाः-ङ.
  3. सुमहाभागान्; सुमहातेजाः-ङ.
  4. शरणं गतः-ङ. ज.