पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
306
[बालकाण्डः
सगरवृत्तान्तः

 उपसंहारः-एष इत्यादि । विस्तर इति । चरितविस्तर इति यावत् ॥ ३२ ॥

 भक्तश्च यः कार्तिकेये काकुत्स्थ ! भुवि मानवः ।
 आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तत्रिंशः सर्गः

 सालोक्यतां, स्वार्थिकःष्यञ् सलोकतां व्रजेत् । इमं कुमार सम्भवसर्गं पठन्निति शेषः । गङ्गा(३३)मानः सर्गः ॥ ३३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तत्रिंशः सर्गः

अथ अष्टात्रिंशः सर्गः
[सगरवृत्तान्तः]

 तां कथां कौशिको रामे निवेद्य कुशिकात्मजः ।
 पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥ १ ॥

 अथ 'त्रीन् पथो हेतुना केन' इत्यादिप्रश्नस्य चोत्तरार्थं उपोद्धातः-तां कथामित्यादि । इदमपरं वाक्यमिति । [१]अपृष्टोत्तरं वक्ष्यमाणरूपमिति शेषः ॥ १ ॥

 अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः ।
 सगरो नाम धर्मात्मा प्रजाकामः स[२] चाप्रजः ॥ २ ॥

 यस्मात् अप्रजः तस्मात् प्रजाकामः अभूत् ॥ २ ॥


  1. पृष्टोत्तरं-ग.
  2. चाप्रजाः-झ.