पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
296
[बालकाण्डः
ईश्वरं प्रति देवानां प्रार्थना

 एवमुक्तः सुरपतिः-रुद्रः येन तेजसा-स्कन्नेनावरेण तेजसाऽपि सगिरिकानना पृथिवी शक्त्या व्याप्ता भवति, तादृशं तेजः प्रमुमोच । हः प्रसिद्धौ ॥ १७ ॥

 ततो देवाः पुनरिदं ऊचुश्चाथ हुताशनम् ।
 प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥ १८ ॥

 अथ पृथिवीमुक्तस्य तेजसो रक्षार्थं 'अग्निः पृथिव्या अधिपतिः 'इति पृथिव्यभिमान्यामं नियुञ्जते-तत इत्यादि । हुताशनमिति । देवीक्लेदोंऽशरूपमिति शेषः । अन्यादृशाग्ने रौद्रतेजस्त्रोतःप्रवेशायोगाद्रसबलसाध्यश्वेतपर्वतायोगाच्च । वायुसमन्वितः इत्यनेन चारणलक्षण-प्रवेशोपाय उक्तः । पुनश्शब्दो वाक्यालङ्कारे ॥ १८ ॥

तदग्निना पुनर्व्याप्तं संजातः श्वेतपर्वतः ।
दिव्यं शरवणं चैव पावकादित्यसन्निभम् ॥ १९ ॥
यत्र जातो महातेजाः कार्तिकेयोऽग्निसंभवः ।

 तत्-तेजः उक्ताग्निचारणजारणबलान् बद्धं सदुपरि क्रियारहितं केवलं श्वेतपर्वतात्मनावस्थितमभूत् । तच्च श्वेतपर्वतात्मनाऽवस्थिततेजः तत्प्रदेशे तन्महिम्ना दिव्यं पावकादित्यसन्निमं शरवणं चाभूत् । 'प्रनिरन्तरश्शर' इति णत्वम् । यत्र जात इति । जातः भविष्यतीति यावत् । अग्निना कियत्कालं धृत्वा मोक्ष्यमाणत्वादग्निसन्निभत्वं; कार्तिकेयत्ववत् ॥ १९ ॥

 अथोमां च शिवं चैव देवास्सर्षिगणास्तदा ॥ २० ॥
 पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा ।

 देवास्सुप्रीतमनसस्तदेति । लोकानुग्रहाय मूलतेजसो धृतत्वात्, देवकार्याय स्कन्नतेजसश्च दत्तत्वात् सन्तोषः ॥ २० ॥