पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३ सर्गः]
279
स्पृष्टास्ताः ब्रह्मदत्तेन बभूवुर्विगतज्वराः

 स राजा सौमदेयस्तु [१]पुरीमध्यावसत्तदा ।
 कांपिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥ १९ ॥

 अथ सौमदेयः-'स्त्रीभ्यो ढक्', सोमदायाः पुत्रः स ब्रह्मदत्तः, गन्धर्व्या सोमदायाः क्षत्रियत्वात् क्षेत्रद्वारप्राप्तया परया लक्ष्म्या [२]कांपिल्यां-कांपिल्यादिनिर्वृत्तां 'सङ्काश कांपिल ' इति सङ्काशादित्वात् 'वुञ्छण्' इत्यादिसूत्रेण ण्यः, ततष्टाप् । पुरीं तदा कुशनामेन वरान्वेषणकाले अध्यावसत्-'उपान्वध्याङ्वसः' इति आधारस्य कर्मत्वं-पुर्यामुषितवानिति यावत् ॥ १९ ॥

 स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः ।
 ब्रह्मदत्ताय काकुत्स्थ ! दातुं कन्याशतं तदा ॥ २० ॥

 किं तत इत्यतः-स इत्यादि । काकुत्स्थेति रामस्य सम्बुद्धिः । तदा-काम्पिल्यायां ब्रह्मदत्तस्यावासकाले ॥ २० ॥

 तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।
 ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥ २१ ॥
 यथाक्रमं ततः पाणीन् जग्राह रघुनन्दन !
 ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥ २२ ॥

 तासां पाणीन् इत्यन्वयः । देवपतिदृष्टान्तो दिव्यवैभववत्त्वे; न तु पाणिग्रहांशे । देवपतिशब्देन सोमराजविवक्षायां तु पाणिग्रहांशेऽपि दृष्टान्तः ॥ २२ ॥

 स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः ।
 [३]युक्ताः परमया लक्ष्म्या बभुः कन्या शतं तदा ॥ २३ ॥


  1. पुरीमध्यवसत्-ज.ङ.
  2. कपुस्तके सर्वत्र 'कांबि' इति पाठः ।
  3. युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा' इति-ङ.