पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
202
[बालकाण्डः
दशरथसन्तापः

 दुष्टभावानां तेषां सम्बधिनि रण इति योजना ॥ १४ ॥

 तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ॥ १५ ॥
 पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ।
 स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ॥ १६ ॥
 महावलो महावीर्यो राक्षसैर्बहुभिर्वृतः ।

 त्रैलोक्यं बाघत इति । इदं किं वीर्या इत्यस्योत्तरम् ॥ १६ ॥

 श्रूयते हि महावीर्यो रावणो राक्षसाधिपः ॥ १७ ॥
 साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ।

 प्रसिद्धश्चायं रावण इत्युच्यते-श्रूयत इति ॥ १७ ॥

 यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः ॥ १८ ॥
 तेन सञ्चोदितौ द्वौ तु राक्षसौ वै महाबलौ ।
 मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥ १९ ॥

 यदा स्वयं न विघ्नकर्तेति । अलक्ष्यत्वादिनेति शेषः । तेन सञ्चोदिताविति किंप्रमाणा इत्यस्योत्तरम् ॥ १९ ॥

 इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा ।
 न हि शक्तोऽस्मि सङ्ग्रामे स्थातुं तस्य दुरात्मनः ॥ २० ॥

 अथ रक्षःस्वरूपादि प्रश्ने रावणप्रसङ्गेन स्वयमेव निवृत्तप्रतिक्रियाप्रत्याशो राजाऽऽह-इत्युक्त इत्यादि ॥ २० ॥

 स त्वं प्रसादं धर्मज्ञ ! कुरुष्व मम पुत्रके ।
 मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ॥ २१ ॥

 अल्पभाग्यस्येति । प्रकृतनियोगकरणासमर्थत्वादित्याशयः । कथं तर्हि मत्प्रसादप्रसङ्ग इत्यत्राह-दैवतं हीत्यादि । देवताः–ब्रह्मविदः