पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
37
सरामस्य सुग्रीवस्य किष्किन्धागमनम्

 कुत्स्मिवदुत्स्मिरपि स्वार्थे णिः । महाबाहुः-महाबलो रामः अस्थि प्रेक्ष्योत्स्मयित्वा-उत्स्मितं-ईषत्स्मयं कृत्वा तत् पादाङ्गुष्ठेन चिक्षेप । क्षिप्तं च तत् दशयोजनपरिमितदूरं संपूर्णं-अनुपचारेण दशयोजनादन्यूनतय । क्षिप्तमभूत् ॥ ६५ ॥

 बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।
 गिरिं [१]रसातलं चैव जनयन् प्रत्ययं तदा ॥ ६६ ॥

 पुनश्च प्रत्ययं जनयन् । हेतौ शता । तदा तदर्थं एकेनैव महेषुणा सकृत्प्रयोगेणैव च सप्तसालान्-सालवृक्षान् ततः पुरोवृत्तिगिरिं [२]रसातलं-षष्ठमधोलोकञ्च बिभेद । पाताले रसातलो नामाधोलोक-भेद । अतलवितलसुतलतलातलमहातलरसातलपाताला इति सष्ठाधोलोकाः ॥६६॥

 ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः ।
 किष्किन्धां रामसहितो जगाम च गुहां तदा ॥ ६७ ॥

 ततः-अनन्तरं भगवदतिरिक्तेन येन केन चिदपि दुष्करेण तेन कर्मणा विश्वस्तः-प्राप्तविस्रंभः । इडभावश्छान्दसः । प्रीतमनाश्च महाकपिः किष्किन्धाख्यां गुहां रामसहितो जगाम । पारस्करप्रभृतिषु 'किष्किन्धा गुहा' इति वचनात् षत्वम् ॥ ६७ ॥

 ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।
 तेन नादेन महता निर्जगाम हरीश्वरः ॥ ६८ ॥

 ततः अगर्जत् इति पदम् । हरीश्वरो वाली ॥ ६८ ॥


  1. वस्तुतस्त्वत्र रसातलपदं 'अधोभुवनपातालबलिसद्मरसातलम्' इति कोशानुसारेणाधोभुवनसामान्यवाचकं, स्वारस्थातिशयात् ॥
  2. वस्तुतस्त्वत्र रसातलपदं 'अधोभुवनपातालबलिसद्मरसातलम्' इति कोशानुसारेणाधोभुवनसामान्यवाचकं, स्वारस्थातिशयात् ॥