नागपत्न्यः, गन्धर्वपत्न्यश्च तथा ॥ १४ ॥
देवानामाक्रीडैः-क्रीडापर्वतशतैः हिमवदादावुभयतीरवर्तिभिः उपेतां । प्राग्वदेव-देवोद्यानयुतां । देवार्थं-देवानां स्नानपानादिप्रयोजनाय तत्प्रार्थनया आकाशगतां । तत्र प्रदेशे देवपाद्मिनीं-देवः-भगवान् हिरण्यगर्भः, तदीयं पद्मं -स्वर्णपद्मं, तदर्थं तद्वतीमित्यर्थः ॥ १५ ॥
[७]जलाघाताट्टगृहासोग्रां फेननिर्मलहासिनीम् ।
क्वचिद्वेणीकृतजलां क्वचिदावर्तशोभिताम् मुक्तामणिः ॥ १६ ॥
शिलादिपतनस्थले योऽयं जलाघातः सशब्दः-तद्रूपेणाट्टहासेन उग्रां ; सशब्दः शूरादिक्रियमाणः हासः-अट्टहासः । फनरूपः निर्मलः हासः मन्दस्मितरूपः अस्या अस्तीति तथा । एवमादिस्त्रीसमाधिवर्णनं प्रवाहरूपिण्या अपि गङ्गायाः ॥ १६ ॥
क्वचित् स्तिमितगम्भीरां क्वचिद्वेगजलाकुलाम् ।
क्वचित् गम्भीरनिर्घोषां क्वचिद्भैरवनिस्वनाम् ॥ १७ ॥
स्तिमिता-निश्चला गम्भीरा-अगाधा च तथा । गम्भीरनिर्घोषो मृदङ्गादेवि, भैरवनिस्वनस्त्वशन्यादेरिव ॥ १७ ॥