पुटमेतत् सुपुष्टितम्
378
[अयोध्याकाण्डः
दशरथाक्रोशः
मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी ।
अपकारं कमिव ते करोति जनकात्मजा ॥ ८ ॥
ननु पर्याप्त[१]मेतत्ते, पापे ! रामविवासनम् ।
किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ ९ ॥
भूयः पातकैरिति । अभ्यधिकं पुनरप्यनुष्ठीयमानैरित्यर्थः ॥ ९ ॥
प्रतिज्ञातेत्यादि । अभिषेकाय मया कृतनिश्चयं पश्चात् तत्प्रतिबन्धे सति इहागतं रामं प्रति यदब्रवीः 'जटादिधरो वनं गच्छ इति–तावदेव त्वयोक्तं शृण्वता मया तावदेव प्रतिज्ञाता-तथाऽस्त्वित्यनुमतेत्यर्थः ॥ १० ॥
एतत्समतिक्रम्य-मत्प्रदत्तरामवनवासमप्यतिक्रम्य-अधिक-प्रवृत्त्या त्वं निरयं गन्तुं नार्हसि । कोऽसौ मदतिक्रम इत्यतः-मैथिलीमित्यादि । या त्वं हि-यस्मान्मैथिलीमपि चीरवासिनीमीक्षसे-चीरदानपूर्वकमपेक्षसे, अतोऽयमतिक्रमः । अतस्तन्मा कुरु । नात्र मयाऽनुमन्तव्यनिर्बन्ध इति शेषः ॥ ११ ॥
- ↑ मेवं ते-च.
- ↑ प्रतिज्ञातं-ङ. च.
- ↑ पञ्चदशसर्गे-सुमन्त्रं प्रति कैकेयी रामानयनाय-'सुमन्त्र राजा रजनीं रामहर्ष-समुत्सुकः' इत्याद्यभिहितवती-तदभिप्रायेणात्र अभिषेकायागतमित्युक्तम् ।
- ↑ तत्त्वेतत्-इत्येव सर्वत्र ।
- ↑ मिच्छसि ङ. च.
- ↑ एतदनन्तरं- 'इतीव राजा विलपन्महात्मा शोकस्य नान्तं स ददर्श किश्चित् । भृशाद्वरत्वाच पपात भूमौ तेनैव पुत्रभ्यसने निमनः ॥' इत्यधिकं-ड.