एवमधर्मे प्रस्पष्टेऽपि तव धर्मबुद्धिर्न जातेति मे दुःखमित्याह-य इत्यादि । यस्त्वयं भेदः-अभिषेक[४]विघटनात्मा उक्तरीत्या किल्बिषात्-मृषावरप्रकल्पनादेव कृतः, एवमपि सर्वथैव तत्त्वत्वेऽपि त्वयैवं न गृह्यत इति यत् तत्र-अत्र मे दुःखं जायते । एवं तत्त्वग्रहा-भावादेव जायमानो गर्हितो धर्मसङ्गश्च-धर्मत्वबुद्धिश्च मम दुःखाय जायते ॥ १३ ॥
मनसाऽपि कथं कामं [५]कुर्यात्त्वां कामवृत्तयोः ॥ १४ ॥
तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः ।
पुनश्च दोषस्य दोषत्वेनाग्रहमेव शोचति-मनसाऽपीत्यादि । त्वां विना, केवलदैष्टिकसाधुं विनेत्यर्थः, कामवृत्तयोस्तयोर्वचः परिपालनं मनसाऽपि कथं कुर्यात् ? मनसाऽपि नाशास्ते, अनुष्ठानं तु दूर इत्यर्थः ॥
यद्यपि प्रतिपत्तिस्ते दैवी चापि तयो[६]मर्तम् ॥ १५ ॥
तथाप्युपेक्षणीयं ते न मे तदपि रोचते ।
इदानीं वरप्रसङ्गस्य वास्तवत्वमङ्गीकृत्याप्याह–यद्यपीत्यादि । तयोः पित्रोः प्रतिपत्तिः-स्वपुत्राभिषेकत्ववनवासविषयकवरग्रहगोचरा पितुश्च तदनुमतिगोचरा बुद्धिः दैवी-देवकृता इति ते मता, अथापि तदनुवर्तनं ते उपेक्षणीयं-उपेक्षार्हं,'अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेन्न तु' इत्यादिस्मृतेर्मुख्योदाहरणत्वात् । एवमुपेक्षणीयमपि नोपेक्षस इति यत्तदपि मे न रोचते ॥ १५ ॥