पुटमेतत् सुपुष्टितम्
२२ सर्गः]
237
प्रसाद्य मातरं रामो लक्ष्मणं त्वेवमब्रवीत्
यशो ह्यहमति । प्राप्तमपि राज्यं त्यक्त्वा पितृवाक्यपरिपालनं कृतवानित्येवं रूपम् । देवि ! मानुषे जीविते अदीर्घकाले-अल्पकालतया निश्चिते सति कथं जीवनार्थं अवरां-अवरप्रयोजनभूतां महीं अधर्मतः-परमपुरुषार्थत्यागेन वृणे ॥ ६४ ॥
प्रसादयन्नरवृषभः स्वमातरं
पराक्रमाज्जिगमिषुरेव दण्डकान् ।
अथानुजं भृशमनुशास्य दर्शनं
चकार तां [१]हृदि जननीं प्रदक्षिणम् ॥ ६५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकविंशः सर्गः
दर्शनं-धर्मरहस्यज्ञानम् । तां जननीं प्रदक्षिणं कृत्वा हृदि गन्तुं मनश्चकार इत्यर्थः । गति (६३) (?) मानः सर्गः ॥ ६५ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकविंशः सर्गः
द्वाविंशस्सर्गः
[लक्ष्मणप्रतिबोधनम्]