पुटमेतत् सुपुष्टितम्
२० सर्गः]
211
श्रुत्वा तद्वचनं घोरं कौसल्या न्यपतद्भुवि
हित्वा मुनिवदामिषमिति । एतेन-विशिष्टसंस्कारसंस्कृतमांसोपेतभोजने निमन्त्रणं मातृकृतमपि प्रत्याख्यातम् । मुनिवदित्युक्तत्वादेव श्राद्धाय मांसग्रहो न विरुद्धः-'इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना' इति वक्ष्यमाणः ॥ २९ ॥
यष्टिः-शाखा ॥ ३२ ॥
तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव ।
रामस्तूत्थापयामास मातरं गतचेतसम् ॥ ३३ ॥
- ↑ मधुमूल-ङ.
- ↑ आमिषं-राजभोग्य वस्तु-'आमिषं पुनपुंसकम् । भोग्यवस्तुनि संभोगे' इति मेदिनी-शि. आमिषं-संभोगं, राज्यलोभं, सुन्दररूपं वा-'आमिषं पलले लोभे संभोगोत्कोचयोरपि इति विश्वः-सत्य. अत्रामिषशब्देन सूतैः संस्कृतं मांसमुच्यते । केवलमांसस्वीकारस्योत्तरत्र वक्ष्यमाणत्वात् 'इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना' (अयो. ९६-२) इति गो.
- ↑ वन्यानि वानप्रस्थयोग्यानि कर्माणि-गो. वल्कलानि-ति.
- ↑ नगरे तथा छेदनाभावात् "वने" इत्युक्तम-गो.
दुःखानर्हत्वसूचकं वेदम् । प्रष्टुरभावाद्वा तथोक्तम्.