[१]तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् ।
राम ! तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ १४ ॥
तवेत्यादि । उत्सुकस्य गमनोत्सुकस्य तव गमनविलम्बमहमिदानीं न क्षमं मन्ये-अनुचितं मन्ये ॥ १४ ॥
कुत इत्यत्र हेतुमाह-व्रीडेत्यादि । यतः स्वसत्यस्य पारप्राप्त्यदर्शनजव्रीडान्वितः तस्मादेव यच्च किञ्चिदपि त्वां प्रति नाभिभाषते ; एतदनभिभाषणमुद्दिश्य नान्यत्किञ्चित्कारणं त्वया चिन्त्यम् । यदेवं-अतो हे नरश्रेष्ठ । राज्ञ एष मन्युः-दैन्यं त्वदविलम्बगमनेनापनीयताम् ॥ १५ ॥
यावत्त्वं न वनं यातः पुरादस्मादतित्वरन् ।
पिता तावन्न ते राम ! स्नास्यते मोक्ष्यतेऽपि वा ॥ १६ ॥
इतश्च न युक्तो विलम्ब इत्याह-यावदित्यादि । भोक्ष्यतेऽपिवेति । मत्प्रतिबन्धाद्दरिद्राधमर्णवदिति भावः ॥ १६ ॥
[४]धिक्कष्टमिति निश्वस्य राजा शोकपरिप्लुतः ।
मूर्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते ॥ १७ ॥
रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः ।
कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥ १८ ॥
वनं गन्तुं कृतत्वरः अभूदिति शेषः ॥ १८ ॥