पुटमेतत् सुपुष्टितम्
190
[अयोध्याकाण्डः
वनवासनिदेशः
[१]यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः ।
कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥ १६ ॥
यतोमूलमिति । अलुगार्षः । यो नरः इहात्मनः प्रादुर्भावं-शरीरप्ररिग्रहं यन्मूलं-यत्कारणकं पश्येत्-जानीयात् सोऽसौ विवेकी उक्तहेतोरेव प्रत्यक्षे दैवते सिद्धे सति तस्मिन् पितरि आनुकूल्ये कथं न वर्तेत ॥ १६ ॥
ते-तव रोषेण-कोपेन अभिमानात्-गर्वेण वा मम पिता परुष-मुक्तो न कच्चित् । यत्र-येनास्य मनो लुलितम् ॥ १७ ॥
एतदाचक्ष्व मे देवि ! तत्त्वेन परिपृच्छतः ।
किं निमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ १८ ॥
एवमुक्ता तु कैकेयी राघवेण महात्मना ।
उवाचेदं [५]सुनिर्लज्जा धृष्टमात्महितं वचः ॥ १९ ॥
सुनिर्लज्जा-पत्युरेवं क्लेशकरणलज्जारहिता । धृष्टं-प्रत्यक्षतो'वनं गच्छ' इतिस्ववचनविषय[६]कालुष्यापेतं यथा तथा । आत्महितं-स्वपुत्राभिषेकविषयकम् ॥ १९ ॥
- ↑ मूलं प्रवृत्तिहेतुभूतं, आत्मनः-स्वस्य, प्रादुर्भावं-प्राकट्यं, यतः -यस्मात्-शि. प्रादुर्भावं-जन्म, मूलं स्वप्रादुर्भावापादकं तपआदि च यतः-पितुस्सकाशात्पश्येत्-सत्य.
- ↑ ते अभिमानात्-तव वालम्यात्-गो.
- ↑ कोपेन येनास्य-ङ.
- ↑ लुलितं-कलुषितं.
- ↑ सुनिर्लज्जा-यशः-प्रख्यापनरूपपत्युपकारार्थं-त्यक्तव्रीडा । आत्महितं-जीवानामुपकारकम् । धृष्टं प्रागल्भ्यरहितं-शि.
- ↑ दार्ढ्योपेतं-घ.