पुटमेतत् सुपुष्टितम्
१४ सर्गः]
153
ततः प्रभाते त्वागच्छाद्वसिष्ठो मुनिसत्तमः
वसिष्ठो गुणसंपन्नः शिष्यैः परिवृतस्तदा ।
उपगृह्याशु संभारान् प्रविवेश पुरोत्तमम् ॥ २६ ॥
पुरोत्तमं प्रविवेशेति । सरय्वां कृतप्राभातिक इति शेषः ॥ २६ ॥
समृद्धविपणाः-समृद्धक्रेयपदार्थवन्तः आपणाः यस्यां सा तथा ॥ २७ ॥
महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम्
चन्दनागरुधूपैश्च सर्वतः परिधूपिताम् ॥ २८ ॥
समुत्सुकां-समुत्सुकप्रजायुक्ताम् ॥ २८ ॥
- ↑ एतदनन्तरं "विचित्रकुसुमाकीर्णो नानास्त्रग्भिर्विराजिताम्" इति अधिकं-ङ.
- ↑ विपणः-विक्रयणक्रिया | "विपणो विक्रयः" इत्यमरः । पदार्थानां समृद्धत्वात् विक्रयणक्रियाया अपि समृद्धत्वं- समृद्धविक्रयणक्रियाविशिष्टापणशालिनीमित्यर्थः ।
बहुव्रीहिगर्भबहुव्रीहिः - ↑ अन्तःपुरं श्रेष्ठं-ङ.
- ↑ 'यष्टिमद्भिः' इति पाठान्तरम् । इदं ब्राह्मणविशेषणम् ।
'धारयेद्वैणवीं यष्टिं' इति स्नातकर्मप्रकरणोक्तेः । यद्वा-यष्टिधरै राजसेवकैरित्यर्थः-ति. - ↑ सदश्वैः परमाचितैः, सदस्यैः परमार्चितैः-ङ.
- ↑ परमर्षिमिरावृतः-ङ.