सङ्गृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ।
अन्तर्बहिरिति । प्रकृतीनामितिशेषः। 'स्नेहः प्रवासाश्रयः' इति न्यायेन प्रजानां तद्गतस्नेहः चिरविप्रयोगतो नश्यतीत्यर्थः । कृतमूलत्वस्यैव विवरणं-संगृहीतेत्यादि । सम्यक् परिपालनेन सङ्गृहीताः-अनुरञ्जिताः मनुष्याः-पौरा जानपदाश्च येन स तथा । तत्र हेतुः-आत्मवानित्यादिः ॥ ३४ ॥
उपदिष्टमुपदेशं निगमयति-प्राप्तेत्यादि । राजानं प्रति वीतसाध्वसा सती विनिवर्तय इति ! वरबलादिति शेषः ॥ ३५ ॥
अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ॥ ३६ ॥
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ।
सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ॥ ३७॥
कैकेयी विस्मयं प्राप्ता परं परमदर्शना ।
एवं स्थिते कविः स्वदृशाऽऽह-अनर्थमित्यादि । प्रतीता-इण् गतौ । सर्वे गत्यर्था ज्ञानार्थाः । तदुक्तं हिततया प्रतिगृहीतवतीति यावत् । परमदर्शनेत्यन्तविशेषणवती सा कैकेयी मन्थरामिदमब्रवीदिति योजना । [३]किशोरी-बालबडबा ॥ २७ ॥