एतत् पृष्ठम् परिष्कृतम् अस्ति
६४ सर्गः]
69
काल: सोsद्याssगतो देवि ! हृदयं सीदतीव मे
यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥ ६३ ॥
नहि द्रक्ष्यन्तीति । स्वेष्टबन्धूनिति शेषः ॥ ६३ ॥
यदि मां संस्पृशेत् रामः सकृदद्य लभेत वा ।
[१] धनं वा यौवराज्यं वा जीवेयमिति मे मतिः ॥ ६४ ॥
अद्य सकृदपि मां रामः संस्पृशेद्यदि, तदा जीवेयमतः परमिति मे मतिः । यद्वा घनं यौवराज्यं वा लभेत, तदा वा जीवेयम् । न त्रयमपि संवृत्तमिति शेषः ॥ ६४ ॥
अनेन -रामेण मयि - पितरि यत् कृतं - त्यक्त्वाऽपि राज्यं स्ववचनपरिपालनरूपं कर्म, तत्तु तस्यैव सदृशम् ॥ ६५ ॥
दुर्वृत्तमपि कः पुत्रं त्यजेत् भुवि विचक्षणः ।
कश्च प्रव्राज्यमानो वा नासूयेत् पितरं सुतः ॥ ६६ ॥
स्वसदृशान्यायकृत् रामसदृशन्यायकृच्च लोके [४] नाभूत्, अस्ति, भविष्यतीत्याइ – दुर्वृत्तमित्यादि ॥ ६६ ॥
चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते ।
दूता वैवस्वतस्यैते, कौसल्ये ! त्वरयन्ति माम् ॥ ६७ ॥
- ↑ इदमर्धं कुत्रचिन्नास्ति-ङ.
- ↑ पूर्वार्धे स्वश्लाघना, उत्तरार्धे रामश्लाघना च अकारि । राघवे यन्मया कृतं तत्
न मे सदृशं-ति. वस्तुतः-रामविषये मया यत् कृतं तत् मे-मादृशस्य मूर्खस्यैव
सदृशं-युक्तं; एतादृशेऽपि रामेण यत् कृतं तत् तस्यैव सदृशम् । अयमेवार्थः अनन्तर-
श्लोके विव्रियते । - ↑ न तन्मे-च.
- ↑ नञः उत्तरत्रापि सम्बन्धः ।