पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४ सर्गः]
65
ततः स्वर्गं समारोहत् मुनिपुत्रः स्वकर्ममिः


निहतस्त्वं यथा अपापोऽसि-निष्पापो जायसे, तेन मामकेन सत्येन- तपसा शस्त्रयोधिनां ये लोकाः पुण्याः सन्ति, तान् लोकान् आशु गच्छ ॥ ४१ ॥

[१] यान्ति शूरा गतिं यां च संग्रामेष्वनि[२]वर्तिनः ।
हतास्त्वभिमुखाः, पुत्र ! गतिं तां परमां व्रज ॥ ४२ ॥

 उक्तमेवार्थं विविच्य प्रतिपादयति — यान्तीत्यादि । स्वर्गगामिनां शूराणां प्रसिद्धानां गतिम् ॥ ४२ ॥

यां गतिं सगरः शैब्यः दिलीपो जनमेजयः ।
नहुषो धुन्धुमारश्च [३]प्राप्तास्तां गच्छ, पुत्रक ! ॥४३॥
या गतिः [४] सर्वसाधूनां स्वाध्यायात् तपसश्च या ।
या भूमिदस्याहिताग्नेः एकपत्नीव्रतस्य च ॥ ४४ ॥

 पुनर्विशिष्याह—यां गतिमित्यादि । एकपत्नीव्रताः - रामादयः ॥ ४३-४४ ॥

गोसहस्रप्रदातॄणां या, या गुरुभृतामपि ।
[५]देहन्यासकृतां या च तां गतिं गच्छ, पुत्रक! ॥ ४५ ॥

 गुरून् बिभ्रतीति गुरुभृतः । देहन्यासभृतां - महाप्रस्थान- प्रयाणादिनेति शेषः ॥ ४५ ॥

न हि त्वस्मिन् कुले जातः गच्छत्यकुशलां गतिम् ।
स तु यास्यति येन त्वं निहतो मम बान्धवः ॥ ४६॥


  1. यां हि शूरा गतिं प्राप्ताः- ङ.
  2. वर्तिनां- ङ.
  3. एते सर्वे यां गतिं प्राप्ता इत्यन्वयो वक्तव्यः ।
  4. सर्वभूतानां-ङ.
  5. परलोकप्राप्तिसंकल्पपूर्वकं गंगायमुनासंगमादौ जले अग्नौ वा तनुं त्यजतामित्यर्थः- गो