शास्त्रं वाऽन्यद्वेति । पुराणं वेति शेषः । वैश्यात् शूद्रायां
जातस्य करणजातित्वात् वेदप्रसङ्गो नोक्तः ॥ ३३ ॥
को मां सन्ध्यामुपास्यैव स्नात्वा [१] हुतहुताशनः ।
श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम् ॥ ३४ ॥
सन्ध्यामुपास्येत्यादि । आगममार्गत इति शेषः । करणस्य [२] वेदमार्गानधिकारात् । श्लाघयिष्यति- श्लाघनं - उद्वर्तनं, तत्पूर्वं कः स्नापयिष्यतीत्यर्थः । तथा प्रयोगः 'नाप्सु श्लाघमानः स्नायात्' इति ब्रह्मचारिप्रकरणे आपस्तम्बः ॥ ३४ ॥
कर्मसु साधुः कर्मण्यः, 'तत्र साधुः' इति यत् । अतिथि-विशेषणमिदम् । अप्रग्रहं -यष्टिं गृहीत्वा पुरोमार्गप्रदर्शकरहितम् ॥
इमामन्धां च वृद्धां च मातरं ते तपस्विनीम् ।
कथं, वत्स ! भरिष्यामि कृपणां पुत्रगर्धिनीम् ॥ ३६ ॥
कथं वत्स भविष्यामीति । स्वयमप्यन्ध इति शेषः ॥ ३६ ॥
[७]मामित्याबाधे द्विरुक्तिः । समेधितः - संगत इति यावत् ॥
- ↑ ननु वैश्यात् शूदायां जातो हि करणः, तस्य कथं होमाधिकार इति–मैवम्-
'नमस्कारेण मन्त्रेण पञ्चयज्ञान् समापयेत्' इति चतुर्थवर्णस्यापि पञ्चमहायज्ञाधिकारः
स्मर्यते, ततोऽप्यधिकस्य करणस्य स्वोचितमन्त्रैर्होमाधिकारस्य कैमुत्यन्यायसिद्धत्वात्। श्वाघयिष्यति-उपचरिष्यतीत्यर्थः- गो. - ↑ वैदिकमा -ग.
- ↑ अकर्मण्यं-कर्मानुष्टानाक्षमम्-गो., ति
- ↑ भोजयिष्यत्यकर्मण्यं - ङ., च
- ↑ तिष्ठ मां-मां प्रति तिष्ठ, मा गमः- मा गच्छ- गो.
- ↑ मां मा-ङ.
- ↑ आबाधा - पीडा ।