पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४ सर्गः]
57
ततः त्रस्तोऽहमगमं तत्पित्रोराश्रमं शनैः


अपरिणायकौ-अन्धयोस्तयोः सञ्चारयितृपुरुषान्तररहितौ ॥

तन्निमित्ताभिरासीनौ [१] कथाभि [२] रपरिश्रमौ ।
तामाशां मत्कृते हीनौ [३]उदासीनावनाथवत् ॥ ५ ॥

तन्निमित्ताभिः- पुत्रनिमित्ताभिः कथाभिः हेतुभिः अपरिश्रमावासीनौ- पुत्रो जलमानेष्यतीति प्रत्याशया श्रमं सोढ्वा आस्थितावित्यर्थः । मत्कृते-मत्कृतदुष्कर्मनिमित्ततः तामाशां प्रत्यपि हीनौ, अत एव अनाथवत् उदासीनौ-- अनाथावेव सन्तौ स्थितौ इत्यर्थः ॥ ५॥

शोकोपहतचित्तश्च भयसंत्रस्तचेतनः ।
तच्चाश्रमपदं गत्वा भूयः शोकमहं गतः ॥ ६ ॥

तौ दृष्ट्वा शोकोपहतचित्त इति योजना । भूयः -अभ्यधिकम् [४]॥ ६ ॥

पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत ।
किं चिरायसि, मे पुत्र ! पानीयं क्षिप्रमानय ॥ ७॥

चिरायसि-'तत्करोति' इति णिच्, किं विलम्बं करोषि ॥ ७ ॥

यन्निमित्तमिदं, तात ! सलिले क्रीडितं त्वया ।
उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ॥ ८ ॥

हे तात ! यन्निमित्तं येन हेतुना एतावत्कालं सलिले त्वया इदं क्रीडितम् - भावे निष्ठा, क्रीडनमभूत्, तेनेयं ते माता उत्कण्ठिता- सशोकस्मरणवत्यभूत् ॥ ८ ॥


  1. कथामिः उपलक्षितौ-गो.
  2. रपरिक्रमो-ङ.
  3. उपासीना-च.
  4. तयोरसहायतादर्शनेन शोकस्याधिक्यम् ।