पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
54
[अयोध्याकाण्ड;
ऋषिकुमारवधाख्यानम्


 हे राजन् ! मां विशल्यं कुरु | निशितस्ते शरः मर्मलग्नः सन् मे मर्म रुणाद्धि-पीडयतीति यावत् । किमिव ? मृदु-सिकताप्रायं सोत्सेधं- उच्छ्रायवत् तीरं- नदीतीरं अम्बुरयः- नदीपूरवेग इवेत्यर्थः ॥ ४६ ॥

सशल्यः क्लिश्यते प्राणैः [१] विशल्यो विनशिष्यति ।
॥ इति मामाविशत् चिन्ता तस्य शल्यापकर्षणे ॥ ४७ ॥

 हे कौसल्ये ! एवं तेनोक्ते मां चिन्ता आविशत् । कीदृशीत्यतः - सशल्य इत्यादि । प्राणैः अस्वस्थैः निरुद्धगमनैश्चेति शेषः ॥ ४७ ॥

दुःखितस्य च दीनस्य मम शोकातुरस्य च ।
लक्षयामास हृदये चिन्तां मुनिसुतस्तदा ॥४८॥

 मुनिसुतो लक्षयामासेति । इदानीमस्मदुक्तचिन्तया, अयं मदीयं शल्यं नोद्धरतीति ज्ञातवानित्यर्थः ॥ ४८ ॥

ताम्यमानः स मां कृच्छ्रात् उवाच [२] परमार्तवत् ।
सीदमानो विवृत्ताङ्गः वेष्टमानो गतः क्षयम् ॥ ४९ ।।

 परमार्तवत्-परमार्तः सन्। क्षयं-शक्तिक्षयम् ॥ ४९ ॥

संस्तभ्य शोकं धैर्येण स्थिरचित्तो [३] भवानघ !
ब्रह्महत्याकृतं [४] पापं हृदयादपनीयताम् ॥ ५० ॥

 किमुवाचेत्यतः - संस्तभ्येति । संस्तंभ्येति यावत् । शोकं- ब्रह्महत्याप्तिजम् । कथं मे स्थिरचित्ततालाभ इत्यतः - ब्रह्महत्येत्यादि ।


  1. तेन च साक्षादेव ब्रह्महत्या मे भवेदिति चिन्तेत्यर्थः ।
  2. परमार्थवत्-ङ्.
  3. भवाम्यहम्-ङ्.
  4. तापं- ङ.