पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
44
[अयोध्याकाण्डः
ऋषिकुमारवधाख्यानम्

त्रिषष्टितमः सर्गः

ऋषिकुमारवधाख्यानम्

प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः ।
अथ राजा दशरथः स चिन्तामभ्यपद्यत ॥ १॥

 अथ आप्तायै कौसल्यायै एतादृशकारणं मुनिशापं वदति । प्रतिबुद्ध इत्यादि ॥ १ ॥

रामलक्ष्मणयोश्चैव विवासात् वासवोपमम् ।
आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् ॥ २ ॥

 उपसर्ग:-उपप्लवः - शोक इति यावत् । आसुरं तमः सूर्यमिवेति । असुरः - राहुः, तदीयं आसुरं तमः - आवरणशक्तिः, सा यथा सूर्यमावृणोति काले प्राप्ते, तद्वदित्यर्थः ॥ २ ॥

सभार्ये निर्गते रामे कौसल्यां कोसलेश्वरः ।
विवक्षु[१]रसितापाङ्गीं स्मृत्वा दुष्कृतमात्मनः ॥ ३ ॥
स राजा [२] रजनीं षष्ठीं रामे प्रव्राजिते वनम् ।
अर्धरात्रे दशरथः [३] [४] संस्मरन् दुष्कृतं कृतम् ॥ ४ ॥
स राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः ।
कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् ॥ ५ ॥


  1. रसितापाङ्गां-ङ.
  2. सप्तम्यर्थे द्वितीया, प्रापेति शेषो वा - गो. अत्यन्तसंयोगे वा द्वितीया ।
  3. स्थित इति शेष:- गो. अथ वा पूर्वश्लोके, अत्र च 'कौसल्यां पुत्रशोकार्तां इदं
    वचनमब्रवीत् ' इत्याकृष्यते। विन्यासभेद: वैय्याकुलीं सूचयति ।
  4. सोऽस्मरत्-ङ. च.