पत्या याच्यमानत्वसंपादकं कर्म कुलस्त्रीणां परमनिन्देत्याह- नैषा हीत्यादि । सैषा हि न स्त्री भवति – कुलस्त्री न भवति । हे वीर ! उभयोर्लोकयोः श्लाघनीयेन पत्या या संप्रसाद्यते ॥ १३ ॥
जानामि धर्म, धर्मज्ञ ! त्वां जाने सत्यवादिनम् ।
पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ॥ १४ ॥
किमपि भाषितम् । अनुचितमेव भाषितमित्यर्थः ॥ १४ ॥
शोको नाशयते धैर्यं शोको नाशयते श्रुतम् ।
शोको नाशयते सर्वं नास्ति शोकसमो रिपुः ॥ १५ ॥
शोकस्त्वेवमद्यानुचितव्यवहारप्रवर्तनसमर्थ इत्याह — शोक इत्यादि ॥ १५ ॥
सुसूक्ष्मोऽपि शोकः सोढुमशक्यः, किमु मे महानिति शेषः ॥
वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते ।
यः शोकहतहर्षायाः पञ्चवर्षोपमो मम ॥ १७ ॥
स्वकं महाशोकमेव दर्शयति – वनवासायेत्यादि । वनवासं कर्तुं प्रस्थितस्य वने पञ्चरात्रः वासोऽत्र गण्यते । आगङ्गं देशत्वात् गङ्गोत्तरणानन्तरं प्रयागयमुनाचित्रकूटेषु रामवृत्तान्तपरिज्ञानाय गुहेन