पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
34
[अयोध्याकाण्डः
दशरथोपालंभः


[१]यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ।
जह्यात् राज्यं च कोशं च भरतेनो[२]पभोक्ष्यते ।। ११ ॥

 भवतु चतुर्दशवर्षपर्यन्तं वनवासः; पश्चाद्राज्यं भविष्यतीत्याशंक्य, पश्चादपि न तत्प्राप्तिप्रसङ्गो रामस्येत्याह —- यदीत्यादिना । पञ्चदशे वर्षे मातृप्रत्याशया यद्यपि राघवः आगमिष्यतीति संभावितम्, अथापि भरतोऽपि भ्रातृस्नेहात् न्यायतो वा सलक्ष्मणात् रामात् भीत्या वा राज्यैकदेशं वा तथा कोशं च जह्याद्यदि- तत्संभावनायामपि, यतः तावत्पर्यन्तं भरतेनोपभोक्ष्यते, अतः कनीयसा भुक्तं कथं नावम॑स्यते इति अग्रेण (१५ श्लो.) सम्बन्धः ॥ ११ ॥

भोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान् ।
ततः पश्चात् [३] समीक्षन्ते कृतकार्या द्विजर्षभान् ॥ १२ ॥
तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः ।
न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥ १३ ॥

 वयोगुणादिकनीयसा भुक्तशेषस्य वयोगुणादिश्रेष्ठास्वीकारे दृष्टान्तमाह - भोजयन्तीत्यादि । यथा किल केचित् द्विजातयः प्रथमं वयोगुणाधिकान् द्विजातीन् श्राद्धे निमन्त्र्य, पश्चात् स्वीयेषु वयोगुणहीनेष्वपि बान्धवेषु आगतेषु स्वानेव बान्धवान् श्राद्धे [४] बहुदक्षिणेन भोजयन्ति – भोजयन्तो दृश्यन्ते; ततः पश्चात् स्वीयैः श्राद्धकर्मनिर्वर्तनानन्तरं कृतकृत्याः सन्तः प्राङ्निमन्त्रितानिष्टपङ्क्तौ भोजनार्थं समीक्षन्तेगवेषयन्ते यदा, तदा तत्र प्राङ्निमन्त्रितेषु ये गुणवन्तः - श्राद्धापेक्षित-


  1. यस्मात् इदानीं भरतेनोपभुज्यते, अतः जह्यात् । अथवा-जह्यात् राज्यं च
    कोशं चेत्येतत् भरते नोपलक्ष्यते-न संभाव्यते । रूढमूलः भरतः न जह्यादित्यर्थः ॥
  2. पभुज्यते, पलक्ष्यते-ङ.
  3. समीहन्ते-ङ.
  4. परेभ्यः एतादृशदक्षिणादानमनिच्छन्तः लोभात् स्वीयानेव भोजयन्तीत्यर्थः ।