पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१ सर्गः
३१
तथापि पुत्रशोकार्ता कौसल्या पतिमब्रवीत्


विधूय शोकं परिहृष्टमानसाः
 महर्षियाते पथि सुव्यवस्थिताः ।
[१]वने रता वन्यफलाशनाः पितुः
 शुभां प्रतिज्ञां [२] परिपालयन्ति ते ॥ २२ ॥
तथाऽपि सूतेन सुयुक्तवादिना
 निवार्यमाणा सुतशोककर्शिता ।
न चैव देवी विरराम कूजितात्
 प्रियेति पुत्रेति च राघवेति च ॥ २३ ॥

 इत्याषें श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षष्टितमः सर्गः


 तथापीति । अतः सूतोक्तं युक्तमिति गृहीतवत्यपीत्यर्थः । न विररामेति । प्रत्यक्षदुःखप्राबल्यादिति शेषः । गिरि(२३)मानः सर्गः ॥ २३ ॥

 इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे षष्टितमः सर्गः



एकषष्टितमः सर्गः [दशरथोपालंभः]

वनं गते धर्मपरे रामे रमयतां वरे ।
कौसल्या रुदती [३] साऽऽर्ता भर्तारमिदमब्रवीत् ॥ १ ॥

 अथ कौसल्या, स्वस्यां स्वपुत्रे च परमप्रेमवन्तं अथापि सत्यवशात् अचिन्तितोपस्थितत्यागं अत एव राजनि दोषाभावं च


  1. वनेचरा- ङ.
  2. प्रतिपाल-ङ. च.
  3. स्वार्ता - ङ.