पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ सर्ग:] स्वयंवरकथा सीतामयापृच्छन्भुनेः सती . इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।

  • अङ्गरागं च, वैदेहि ! महार्हमनुलेपनम् ॥ १८ ॥

अङ्गरागं - अङ्गरञ्जनकरं अनुलेपनं - अनुलेपनसाधन दिव्य- गन्धद्रव्यविशेषमित्यर्थः ।। १८ ।। मया दत्तमिदं, सीते ! तव गात्राणि शोभयेत् । + अनुरूपमसंशिष्टं नित्यमेव भविष्यति ।। १९ ।। अनुरूपं - त्वदेकोचितम् । असंक्लिष्टं-उपभोगेऽपि अशुचित्वादि- दोषरहितम् । अतः नित्यमेव भविष्यतीति । धृतमास्यादिकं सर्व तदा तदा धृतमिव भविष्यतीत्यर्थः ॥ १९ ॥ अङ्गरागेण दिव्येन लिप्ताङ्गी, जनकात्मजे ! शोभयिष्यति भर्तारं यथा श्रीविष्णुमव्ययम् || २० ॥ सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । मैथिली प्रतिजग्राह + प्रीतिदानमनुत्तमम् ॥ २१ ॥ प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम् ॥ २२ ॥ ष्टेिति । रचितेति यावत् ॥ २२ ॥ तथा सीतामुपासीनां अनसूया दृढव्रता । वचनं प्रष्टुमारेभे 8 कथां काञ्चिदनु प्रियाम् ॥ २३ ॥ 491 अक्षराग: - कुङ्कुमहरिचन्दनादिः । अनुलेपनं - कर्पूरागरुकतूरीप्रमुखपरि- मलमिलितम्–गो. + अनुरूपं त्वद्द्वात्रानुरूपम् । असं कृष्टं - अवाघितशोभम् - गो.

  • प्रीतिदानं-क्षत्रियात्वात् प्रतिग्रहानधिकारेण प्रीतिदानमित्युक्तम्-ति. S प्रियकथा-

मनु- प्रियां कथामुद्दिश्य सीतां प्रष्टुं वचनमारेमे-गो. परं-ड.. 3 अनुरूपं तु संश्लिष्टं-ड. प्रियकथामनु-ड.. 2 तपस्विनीम् ङ. "काब्रिय 39*