पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामेण खरवृत्तान्त श्रवणम् [[अयोध्याकाण्ड: अश्वस्य - न विद्यते श्वः सञ्चयः यस्य स तथा । एतेन रक्षोभयनिवारणक्षमं तपो दिव्यं – लक्ष्यते – एवं च महर्षेरित्यर्थः ॥ २० ॥ - अश्वारूयस्य 478 खरस्त्वय्यपि चायुक्तं पुरा, राम ! प्रवर्तते । सहास्मामिरितो गच्छ यदि बुद्धिः प्रवर्तते ॥ २१ ॥ त्वय्यपीति । एतावत्कालमस्मद्रक्षकत्वापराघादिति शेषः । प्रवर्तते पुरेति – प्रवर्तयिष्यतीति यावत् ॥ २१ ॥ सकलत्रस्य *सन्देहः 2 नित्यं युक्तस्य, राघव ! समर्थस्यापि सहितः वासो दुःख इहाद्य ते ॥ २२ ॥ 3 - सकलत्रस्येति । नित्यं युक्तस्य – सदा सावधानस्य रक्षोनिग्रहे समर्थस्यापि सतः तब च इहाश्रमे सन्देहः- मत्वर्थीयान्तः - रक्षः पीडा- सन्देहवान् वासः दुःखो हि ॥ २२ ॥ इत्युक्तवन्तं 'रामस्तं राजपुत्रस्तपस्विनम् । न शशाकोत्तरैः वाक्यैः 'अवबद्धुं ' समुत्सुकम् ॥ २३ ॥ 6 उत्तरैर्वाक्यैरवबद्धुमिति । मया निवार्य रक्षः पीडा, तस्मात् स्थातव्यमिति वचनैः निवारयितुं न शशाक । दैवादपाये कस्यचिदृषेः ब्रह्महत्यासहशपापप्रसङ्गात् + ॥ २३ ॥

  • संदेह: सन्देहजनकः । यत्तस्य – सन्नद्धस्य (पाठान्तरं ) - गो. + पूर्ण-

मानुषभावाश्रयणाद्वा । 'तान-ड.. 5 अवरोद्धुं ङ.. 6 2 नित्यं यत्तस्य- ङ. समुत्सुक:-ड.. 3 वसतः - ङ. + बहुधा- ङ.