पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

470 पादुकापट्टाभिषेक: [अयोध्याकाण्ड: - एतदिति । एतदयोध्यागज्यं मम भ्रत्रा स्वयं- साक्षात् सन्नयासवत् – समीचीननिक्षेपवत् मयि दत्तं-स्थापितम् । कालान्तरे ग्रहणाय स्वविखंभास्पदपुरुषे रक्षणार्थं स्थापितस्तु निक्षेपः । एवं निक्षेप- भूतस्य रामराज्यस्य रक्षणमप्यचिन्त्य वैभवभगवत्पादुका घी नमित्याह – योगेत्यादि । पादुके एव योगक्षेमवहे चेत्युवाचति पूर्वेणा- न्वयः ॥ १४ ॥ भरतः शिरसा कृत्वा ' स न्यासं पादुके ततः । अब्रवीदुःखसंततः सर्व प्रकृतिमण्डलम् ।। १५ ।। भरत इत्यादि । स भरतः पादुके न्यासं, वेदाः प्रमाण- मितिवत्, पादुकात्मकन्यासं शिरसा कृत्वा - अङ्गीकृत्य, प्रणम्येति यावत् ॥ १५ ॥

  • छत्रं धारयत क्षिप्रं आर्यपादाविमौ मतौ ।

आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ॥१६॥ इमौ आर्यपादाविति । विधेयाभिप्रायेण पादुकावाचिन इदंशब्दस्य पुल्लिङ्गनिर्देशः - 'शैत्यं हि यत् सा प्रकृतिर्जलस्य' इतिवत् । पादशब्दः पूज्यवाची । आर्य इति रामः, परमपूज्य- रामभावनास्पदभूते इमे पादुके इत्यर्थः । अत एवानयोरेव राज्येऽपे- क्षितो घर्मः व्यवहारश्च स्थितः - प्रतिष्ठितः । - अत आभ्यां पादुकाभ्यां क्षिप्रं छत्रं धारयत ॥ १६ ॥

  • छत्रमित्येतत् चामरादीनामप्युपलक्षणम् ।

पादुकाभ्यामिति हेतौ तृतीया- गो. सन्नयासं-ङ. अत एव धारयतेति बहुवचनम् ।