पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्यागमनम् चतुर्दशोत्तरशततमः सर्गः [ अयोध्याssगमनम् ]

  • स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः ।

अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ १ ॥ अथ मातृगणस्थापनार्थमयोध्याप्रवेशो भरतस्य । स्निग्धेत्यादि । उपयान्-उपगच्छन् ॥ १ ॥ 460 [अयोध्याकाण्ड: 'बिलालोलूकचरितां आलीननरवारणाम् । तिमिरा लक्ष्यतां + कालीं अप्रकाशां निशामिव ॥ २ ॥ बिलाल:-मार्जारः, डलाभेदः । चरिता--सञ्चरिता । अालीननर- वारणां-सन्तोषाभाव तू स्वगृहनिलीनानां नराण वाग्णानि - कपटाद्या- च्छादनानि यस्यां सा तथा| तिमिरेण अलक्ष्यतां प्राप्तां, अत एव कालीं, अत एव अप्रकाश - अनुज्वलां, अत एव विडाल युक्त- पञ्चविशेषणवती निशामिव स्थितां अयोध्यां प्रविवेशेति पूर्वेणान्वयः अग्रिमाणामपि ॥ २ ॥ राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।

  1. ग्रहेणा'भ्युदितेनैकां रोहिणीमित्र पीडिताम् ॥ ३ ॥

राहु: शत्रुः यस्य स तथा – चन्द्र इति यावत् । श्रिया - दिव्यैश्वर्येण युक्ताम् । प्रज्वलिता प्रभा यस्याः सा तथा । अभ्युदितेन ग्रहेण - राहुणा पीडितां— पीडितमर्तृकाम् अत एव एकां- असहायां रोहिणीमिव स्थिताम् ॥ ३ ॥

  • पूर्वसर्गन्तिम श्लोकोक्तं विस्तरेण अत्र दर्शयति-गो. + कालीं - कृष्णपक्ष-

सम्बन्धिनीम-गो. + ग्रहेण पीडितां चन्द्रपान रोहिणीमिवेति यथाश्रुतो वाऽर्थः । ' बिडालो-ङ. "भ्युत्थितेनैकां - ङ. यादर्ता- ङ.