पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३ सर्ग:] गृहीत्वा पादुके भक्तथा प्रतस्थे भरत: पुरीम् त्रयोदशोत्तरशततमः सर्गः [ भरतप्रत्यागमनम् ] ततः * शिरसि कृत्वा तु पादुके भरतस्तदा । आरुरोह रथं 'हृष्टः शत्रुघ्नसहितस्तदा ।। १ ।। 455 अथ पादुकादानेन कृतराज्यनियोगस्य भरतस्य अयोध्या प्रति निवृत्तिः । तत इत्यादि ॥ १ ॥ वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः । अग्रतः प्रययुः सर्वे मन्त्रिणो | मन्त्रपूजिताः ॥ २ ॥ मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा । प्रदक्षिणं च कुर्वाणाः चित्रकूटं महागिरिम् || ३ || मन्दाकिनीं- चित्रकूटोत्तरपार्श्ववर्तिनी, प्राप्येति शेषः । प्रदक्षिण च कुर्वाणा इति । उत्तरपार्श्ववर्तिमन्दाकिनी प्राप्य प्रामुखतया गमनादेव सिद्धं प्रदक्षिणतया गमनम् ॥ ३ ॥ + पश्यन् 2 धातुसहस्राणि रम्याणि विविधानि च । प्रययौ तस्य पार्थेन ससैन्यो भरतस्तदा ॥ ४ ॥ पार्श्वेनेति । उत्तरपार्धेनेति यावत् ।। ४ ।।

  • पादुके शिरसि कृत्वा - शत्रुञ्जयमू में निक्षिप्ते पादुके सादरमादाय स्वमूर्ध्नावाधा-

येत्यर्थः । पादुके शिरसि कृत्वा हृष्ट:-' यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितो। शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति' इति स्वप्र चिंतानुगुणकिरीटधारणं कृत्वा हट:- गो. यद्वा शिरसीत्यस्य गजशिरसीत्येवार्थ:-ति. अत्र 115 - 13 श्लोको इष्टव्यः । † मन्त्रपूजिता:-- अमोधकार्य विचारनैपुण्यात आगमनकाल इव स्वराभाव: सूच्यते । पूजिता:- गो. अनेन शीघ्रं ङ. 2 सानु-ऊ,