पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामोऽपि बहुधा धर्ममुवाच भरतं तदा

  • अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः ।

भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥ ३१ ॥ वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् । अनृतान्मोचयानेन पितरं तं महीपतिम् ॥ ३२ ॥ इत्यावें श्रीमद्रामायणे वास्मीकीये अयोध्याकाण्डे एकादशोत्तर शततमः सर्गः ११२ सर्ग:] मोचयानेनेति । मोचयमानेनेति यावत् । 447 राग (३२) मान: सर्गः ॥ ३२ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकादशोत्तरशततमः सर्ग: द्वादशोत्तरशततमः सर्गः [ पादुकाग्रहणम् ] तमप्रतिमतेजोभ्यां + भ्रातृभ्यां रोमहर्षणम् । विस्मिताः सङ्गमं प्रेक्ष्य ' समवेता महर्षयः ।। १ ।। अथान्तर्हितदेवगणैः ग्राहितरामवाक्प्रकरणनियोगेनापि भरतेन पुनश्च प्रार्थितेन रामेण पादुकयोः प्रतिनिधित्वेन प्रदानम् । तमित्यादि । तं सङ्गमं प्रेक्ष्येत्यन्वयः | तत्र स्थले समवेता वसिष्ठाद्या महर्षयो विस्मिता बभूवुः ॥ १ ॥

  • धर्मशीलेनानेन आत्रा सहेति अन्वयः । ↑ पितरं अनेन - राज्यपरिपालनेन

अनुनान्मोचयेत्यर्थ:- गो. आतृभ्यां अन्योन्यसौहार्देन कृतं संगम - गो. समुपेता-ङ.