पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

440 भरतप्रायोपवेशः

  • पिता ह्येनं जनयति पुरुष, पुरुषर्षभ !

प्रज्ञां ददाति चाचार्यः तस्मात् स गुरुरुच्यते ॥ ३ ॥ [अयोध्याकाण्ड: प्रज्ञां ददातीति । उपनयनसंस्कारपूर्व ब्राह्मीं विद्यां मूलविद्या- साधनां ददाति । यदेवं आचार्यः ब्राह्मी विद्यातनु जनयति, तस्मा- दाचार्य एव गुरुसमवाये गुरुरुच्यते । तथा आपस्तम्बः—'आचार्यः श्रेष्ठो गुरूणाम्' इति । पित्रपेक्षया आचार्यस्यैव गौरवाधिक्येऽपि स एव हेतुमाह - ' स हि विद्यातस्तं जनयति। तच्छ्रेष्ठं जन्म ' इति । पित्र गौरव न्यूनता यामध्याह- -'शरीरमेव मातापितरौ जनयतः' इति शीर्यत्स्वभावं सर्वयोनिसुलभं प्राकृतं मलशरीरं मलमूलकं जनयतः, न तु परमदुर्लभशाश्वत ब्राह्मविद्यादेहम् ॥ ३ ॥ सोऽहं ते पितुराचार्यः तव चैत्र, परंतप ! मम त्वं वचनं कुर्वन् नातिवर्तेः सतां गतिम् ॥ ४ ॥ उक्ताया लोकस्थिते प्रकृतोपयोगः प्रदश्यते - स इत्यादि । नातिवर्तेरिति । नातिवर्तेथा इति यावत् । सद्गतिभ्रंशो न त - इत्याशयः ॥ ४ ॥ इमा हि ते परिषदः 'ज्ञातयश्च नृपःस्तथा ।

  1. एषु, तात ! चरन् धर्म नातिवर्तेः सतां गतिम् ॥ ५ ॥
  • पितेति मातुरप्युपलक्षणम् । शरीरमेव मातापितरौ जनयत: इत्यर्थ:- गो.

+ ' स हि विद्यातस्तं जनयति तच्छ्र जन्म शरीरमेव मातापितरौ जन्यतः शीर्यत्स्वभावं सर्वयोनिसुलभं प्राकृतं मलजं शरीरम्' इति सूत्रशेषः । एषु – एतेषां दिषये एतदर्थ इति यावत् । ,

1 श्रेणयश्च द्विजास्तथा-ङ.