पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामसान्त्वनम् [अयोध्याकाण्ड: तद्वीर्य -तत्तादृशपराक्रमं युद्धे प्राप्यापि दैवायुद्धे सहसैन्योऽप्य- नीनशत् – आर्षः स्वार्थणिः, नाशं गतोऽभूदित्यर्थः ॥ ३० ॥ 438 शङ्खणस्य तु पुत्रोऽभूत् शूरः श्रीमान् सुदर्शनः । सुदर्शनस्याग्निवर्ण: अग्निवर्णस्य शीघ्रगः ।। ३१ शूरः - शौर्यगुणयुक्तः ॥ ३१ ॥ 1 शीघ्रगस्य मरुः पुत्रः मरोः पुत्रः प्रशुश्रुवः । प्रशुश्रुवस्य पुत्रोऽभूत् अम्बरीषो महाद्युतिः ॥ ३२ ॥ अम्बरीषस्य पुत्रोऽभूत् नहुषः सत्यविक्रमः । नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ ३३ ॥ अजश्व सुव्रतश्चैव नाभागस्य सुतावुभौ । अजः नाभागस्य ज्येष्ठः पुत्रः ॥ ३३ ॥ S (1) 3 अजस्य चैव धर्मात्मा राजा दशरथः सुतः ॥ ३४ ॥ तस्य ज्येष्ठोऽसि * दायाद: राम इत्यभिविश्रुतः । तगृहाण स्वकं राज्यं अवेक्षख जगत्, नृप ! ॥ ३५ ॥ 'दायादौ सुतबान्धवौ' । यस्मात् ज्येष्ठ: स्वकं - जनम् - इक्ष्वाकुमुखस्व वंशानुष्ठान- दायादः -- पुत्रः, तत्- तस्मात् इत्यर्थः । मित्यर्थः ॥ ३५ ॥ इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः । पूर्वजे नावरः पुत्रः ज्येष्ठो ' राज्येऽभिषिच्यते ॥ ३६॥ तमेवार्थ विवृणोति — इक्ष्वाकु गामित्यादि । पूर्वजे स्थिते अवरः पुत्रो नाभिषिच्यते ॥ ३६ ॥

दायादः सुतः - गो. राज्यस्य न्यायपाप्तत्वसूचनाय एवमुत्तिः । 1 महामतिः-च. स्मृतः-ङ. 3 जनं नृप, गतं नृप-ङ, 4 राजा-च.