पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०९ सर्गः] एवं नास्तिक्यकथनं कथं युक्तं द्विजस्य ते ? इति ब्रुवन्तं वचनं 'सरोषं रामं महात्मानमदीनसत्त्वम् | उवाच * तथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः ।। ३७ ।। एवं धिक्कृतो जाबालिः स्वविषयं कोपं रामस्य शमयति- इति ब्रुवन्तमित्यादि । तथ्यं – परमार्थम् । विप्रः – जाबालिः ॥ ३७॥ 429 न नास्तिकानां वचनं ब्रवीम्यहं " न नास्तिकोऽहं न च नास्ति किञ्चन ।

  1. समीक्ष्य कालं पुनरास्तिकोऽभवं

भवेय काले पुनरेव नास्तिकः ॥ ३८ ॥ नास्तिकानां वचनमहं न ब्रवीमि, निर्निमित्तमिति शेषः । न च नास्ति किञ्चनेति । मे प्रयोजनं नास्तिकवादेनेति शेषः । कथमेव प्रत्यक्षापलाप इत्यत्राह – समीक्ष्येत्यादि । कालं समीक्ष्येति ।

  • तथ्यं – यथार्थ, सत्यं - सद्भधो हितम्-गो. + धर्मसंकटे प्राप्ते सर्वमतज्ञेन

विदुषा यत्किञ्चिन्मतमवलम्ब्यापि तस्य परिहरणीयत्वात् महतो राज्यस्यानायकत्वरूपसंकट- परिहाराय त्वां निवर्तयितुं मया नास्तिकमुपन्यस्तं, न त्वई वस्तुतो नास्तिक इत्याइ- न नास्तिकानामित्यादिना । किञ्चन – परलोकादिकं नास्तीति नअस्त्येव । समीक्ष्य कालं पुनरास्तिकोऽभव - यदा वादिनाऽन्येन नास्तिकमतमवलम्ब्यते तं कालं समीक्ष्य अहं पुनरास्तिकमतावलम्ब्यभवम् । अन्यैः वादिभिः नास्तिकमतमवलम्ब्य कुतकोंद्धाटने तदानी महमेव त्वदुक्तरीत्या शत शस्तत्खण्डनमकार्षमित्यर्थः । तहींदानीं नास्तिकमतं कुतोऽवलम्बितवानसीत्यत्राह -- भवेय काले पुनरेव नास्तिक इति । काले- धर्मसंकटकाले-गो. ↑ प्रमाणानुगुणत्वात् पुरुषव्यापारस्य तत्तत्प्रमाणप्रवृत्तिकालानुगुणं आस्तिकत्वनास्तिकत्वादिकं वर्तत एवेत्याशयः । अधिकं अन्यत्र || सदोषं-च. 2 पर्थ्य-च. 3 न चास्तिकोऽहं- ङ.