पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

416 जाबालिवचनम् स नास्ति * पर 'मित्येव कुरु बुद्धि, महामते ! प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ १७ ॥ अतः - - हे महामते ! स त्वं परं – अर्थपुरुषार्थात् परं परलोकप्रयोजनं किञ्चित् प्रयोजनकं किश्चित् धर्म इति नाति बुद्धिं कुरु । मथितसिद्धान्तमाह — प्रत्यक्षमित्यादि । प्रत्यक्षानु- भवसिद्धं यत् सुखसाधनं तदेवानुतिष्ठ | परोक्ष – सुखसाधन कल्पितं धर्मं पृष्ठतः कुरु-त्यज ।। १७ ।। [अयोध्याकाण्ड: सतां बुद्धि पुरस्कृत्य सर्वलोकनिदर्शिनम् । राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ।। १८ ॥ इत्याषें श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टोत्तरशततमः सर्गः M सर्वलोकनिदर्शिनी - S सतां - प्रत्यक्षसिद्धसत्यार्थवादिनां सर्वलोकसंवादयित्रीं बुद्धि पुरस्कृत्य राज्यं प्रतिगृह्णीष्व | दया (१८)- मानः सर्गः ।। १८ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्ड अष्टोत्तरशततमः सर्गः परं-- परलोकानुभाव्यम्-गो. एतत् परं नास्तीति बुद्धि कुर्वित्यन्वयः । +तां बुद्धिं-- प्रत्यक्षादन्यन्नास्तीति बुद्धिं - गो. स इति पृथक्पदं त्वमित्यनेनान्वेति । • मित्येतत् - कु.