पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

414 [अयोध्याकाण्ड: आबालवचनम् शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम् | चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं, भरत ! चराम मा * विपादम् ।। १९ ।। इत्या श्रीमद्रामायणे वास्मीकी ये अयोध्याकाण्डे रुप्तोत्तरशततमः सर्गः नरेन्द्रं सत्यस्थं चराम, विधौ लोटू, संपादयाम | विषादं चराम । धैर्य (१९) मानः सर्गः ॥ १९ ॥ इति श्रीमद्रामायणामृतकत कटीकायां अयोध्या काण्डे सप्तोत्तर शततमः सर्गः अष्टोत्तरशततमः सर्गः [जाबालिवचनम्] आश्वासयन्तं भरतं जावालिः * ब्राह्मणोत्तमः । उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥ १ ॥ एवं उभाभ्यां पितृवचनपरिपालनं कर्तव्यमिति रामेण सिद्धान्विते पितृवचन सत्यश्रद्धाविघातद्वारा प्रत्यावृत्तिप्रयोजनाय जाबालिलोकायतिक- मवलम्ब्याह । आश्वासयन्तमित्यादि । धर्मात् अपेतं - घर्मापेतम्, अधर्ममार्गमित्यर्थः ॥ १ ॥ साधु, राघव ! मा भूत्ते बुद्धिरेवं निरर्थिका । प्राकृतस्य नरस्येव ' ह्यार्यबुद्धेस्तपस्विनः ।। २ ।।

  • ब्राह्मणोत्तम इत्यनेन वक्ष्यमाणं नास्तिकवचनं अहृदयमिति योल्यते गो.

+ 'साधु' इति वाक्योपक्रमसूचकं लोक इव । आर्यबुद्धेः, तपस्विनः वे एवं प्राकृतस्य नरस्येव निरर्थिका बुद्धः मा भूव - इत्यन्त्रयः । लड-च. 2 विषीद-घ. महाइबे-ड.